दुर्गा सप्तशती - मध्यमचरितस्य

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

विष्णुऋपिः ॥ महालक्ष्मीर्देवता ॥ उष्णिक्छंदः ॥ शाकंभरी शक्तिः ॥ दुर्गा बीजम् ॥ वायुस्तत्त्वम् ॥ यजुर्वेदः स्वरुपम् ॥ महालक्ष्मीप्रीत्यर्थे अर्थार्थे जपे विनियोगः ॥ ध्यानम् ॥ अक्षस्रक्परशूगदेषुकुलिशं पद्मं धनुः कुंडिकां दण्डं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् । शूलं पाशसुदर्शने च दधर्ती हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ ॐ ह्लीं ऋषिरुवाच ॥१॥
देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा ॥ महिषेऽसुराणामधिपे देवानां च पुरंदरे ॥२॥
तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् ॥ जित्वा च सकलान्देवनिद्रोऽभून्महिपासुरः ॥३॥
ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् ॥ पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥४॥
यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् ॥ त्रिदशाः कथयामासुर्देवाभिभविस्तरम् ॥५॥
सूर्येद्राग्न्यनिलेंदूनां यमस्य वरुणस्य च ॥ अन्येषां चाधिकारान्स स्वयमेवाधितिष्ठति ॥६॥
स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि ॥ विचरंति यथा मर्त्या महिषेण दुरात्मना ॥७॥
एतद्वः कथितं सर्वममरारिविचेष्टितम् ॥ शरणं च प्रपन्नाः स्मो वधस्तस्य विचिंत्यताम् ॥८॥
इत्थं निशम्य देवानां वचांसि मधुसूदनः ॥ चकार कोपं शंभुश्च भ्रुकुटीकुटिलाननौ ॥९॥
ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः ॥ निश्चक्राम महत्तेजो ब्रह्मणः शंकरस्य च ॥१०॥
अन्येषां चैव देवानां शक्रादीनां शरीरतः ॥ निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥११॥
अतीव तेजसः कूटं ज्वलंतमिव पर्वतम् ॥ ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगंतरम् ॥ ॥१२॥
अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् ॥ एकस्थं तदभून्नारी व्याप्तलोकत्रर्य त्विषा ॥१३॥
यदभूच्छांभवं तेजस्तेनाजायत तन्मुखम् ॥ याम्येन चाभवन्केशा बाहवो विष्णुतेजसा ॥१४॥
सौम्येन स्तनयोर्युग्मं मध्यं चैंद्रेण चाभवत् ॥ वारुणेन च जंघोरु नितंबस्तेजसा भुवः ॥१५॥
ब्रह्मणस्तेजसा पादौ तदंगुल्योऽर्कतेजसा ॥ वसूनां च करांगुल्यः कौबेरेण च नासिका ॥१६॥
तस्यास्तु दंताः संभूताः प्राजापत्येन तेजसा ॥ नयनत्रितयं जज्ञे तथा पावकतेजसा ॥१७॥
भ्रुवौ च संध्ययोस्तेजः श्रवणावनिलस्यच ॥ अन्येषां चैव देवानां संभवस्तेजसां शिवा ॥१८॥
ततः समस्तदेवानां तेजोराशिसमुद्भवाम् ॥ तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥१९॥
ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च ॥ शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् ॥२०॥
चक्रं च दत्तवान्कृष्णः समुत्पाट्य स्वचक्रतः ॥ शंखं च वरुणः शक्तिं ददौ तस्यै हुताशनः ॥२१॥
मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ वज्रमिंद्रः समुत्पाट्य कुलिशादमराधिपः ॥२२॥
ददौ तस्यै सहस्राक्षो घंटामैरावताद्गजात् ॥ कालदंडाद्यमो दंडं पाशं चाम्बुपतिर्ददौ ॥२३॥
प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमंडलुम् ॥ समस्तरोमकूपेषु निजरश्मीन्दिवाकरः ॥२४॥
कालश्च दत्तवान्खङ्गं तस्यै चर्म च निर्मलम् ॥ क्षीरोदश्चामलं हारमजरे च तथांबरे ॥२५॥
चूडामणिं तथा दिव्यं कुंडले कटकानि च ॥ अर्धचंद्रं तथा शुभ्रं केयूरान्सर्वबाहुषु ॥२६॥
नूपुरौ विमलौ तद्वद्धैवेयकमनुत्तमम् ॥ अंगुलीयकरत्नानि समस्तास्वंगुलीषु च ॥२७॥
विश्वकर्मा ददौ तस्यै परशुं चातिनिर्मलम् ॥ अस्राण्यनेकरुपाणि तथाऽभेद्यं च दंशनम् ॥२८॥
अम्लानपंकजां मालां शिरस्युरसि चापराम् ॥ अददज्जलधिस्तस्यै पंकजं चातिशोभनम् ॥२९॥
हिमवान्वाहनं सिंहं रत्नानि विविधानि च ॥ ददावशून्यं सुरया पानपात्रं धनाधिपः ॥३०॥
शेषश्च सर्वनागेशो महामणिविभूषितम् ॥ नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ॥३१॥
अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा ॥ संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ॥३२॥
तस्या नादेन घोरेण कृत्स्रमापूरितं नमः ॥ अमायतातिमहता प्रतिशब्दो महानभूत् ॥३३॥
चुक्षुभुः सकला लोकाः समुद्राश्च चकंपिरे ॥ चचाल वसुधा चेलुः सकलाश्च महीधराः ॥३४॥
जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् ॥ तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ॥३५॥
दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः ॥ सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ॥३६॥
आः किमेतदिति क्रोधादाभाष्य महिषासुरः ॥ अभ्यधावत तं शब्दमशेपैरसुरैर्वृतः ॥३७॥
स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा ॥ पादाक्रांत्या नतभुवं किरीटोल्लिखितांबराम् ॥३८॥
क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् ॥ दिशो भुजसहस्रेण समंताद्व्याप्य संस्थिताम् ॥३९॥
ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् ॥ शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगंतरम् ॥४०॥
महिषासुरसेनानीश्चिक्षुराख्यो महासुरः ॥ युयुधे चामरैश्चान्यैश्चतुरंगबलान्वितः ॥४१॥
रथानामयुतैः षडभिरुदग्राख्यो महासुरः ॥ अयुध्यतायुतानां च सहस्रेण महाहनुः ॥४२॥
पंचाशद्भिश्च नियुतैरसिलोमा महासुरः ॥ अयुतानां शतैः षडभिर्वाष्कलो युयुधे रणे ॥४३॥
गजवाजिसहस्रौघैरनेकैः परिवारितः ॥ वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ॥४४॥
चिडालाख्योऽयुतानां च पंचाशद्भिरथायुतैः ॥ युयुधे संयुगे तत्र रथानां परिवारितः ॥४५॥
अन्ये च तत्रायुतशो रथनागहयैर्वृताः ॥ युयुधुः संयुगे देव्या सह तत्र महासुराः ॥४६॥
कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा ॥ हयानां च वृतो युद्धे तत्राभून्महिषासुरः ॥४७॥
तोमरैर्भिदिपालैश्च शक्तिभिर्मुसलैस्तथा ॥ युयुधुः संयुगे देव्या खङ्गैः परशुपट्टिशैः ॥४८॥
केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे ॥ देवीं खङ्गप्रहारैस्तु ते तां हंतुं प्रचक्रमुः ॥४९॥
सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका ॥ लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ॥५०॥
अनायस्तानना देवी स्तूयमाना सुरर्षिभिः ॥ मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ॥५१॥
सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेसरी ॥ चचारासुरसैन्येषु वनेष्विव हुताशनः ॥५२॥
निःश्वासान्मुसुचे यांश्च युध्यमाना रणेऽम्बिका ॥ त एव सद्यः संभूता गणाः शतसहस्रशः ॥५३॥
युयुधुस्ते परशुभिर्भिदिपालासिपट्टिशैः ॥ नाशयंतोऽसुरगणान्देवी शक्त्युपबृंहिताः ॥५४॥
अवादयंत पटहान् गणाः शंखांस्तथापरे ॥ मृदंगांश्च तथैवान्ये तस्मिन्युद्धमहोत्सवे ॥५५॥
ततो देवी त्रिशूलेन गदया शक्तिऋष्टिभिः ॥ खङ्गादिभिश्च शतशो निजघान महासुरान् ॥५६॥
पातयामास चैवान्यान्घंटास्वनविमोहितान् ॥ असुरान् भुवि पाशेन बद्धा चान्यानकर्षयत् ॥५७॥
केचिद्विध कृतास्तीक्ष्णैः खङ्गपातैस्तथापरे ॥ विपोथिता निपातेन गदया भुवि शेरते ॥५८॥
वेमुश्च केचिद्रुधिरं मुसलेन भृशं हताः ॥ केचिन्निपतिता भूमौ भिन्नाः शूलेन बक्षसिः ॥५९॥
निरंतराः शरौघेण कृताः केचिद्रणाजिरे ॥ सेनानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः ॥६०॥
केषांचिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथाऽपरे ॥ शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ॥६१॥
विच्छिन्नजंघास्त्वपरे पेतुरुर्व्या महासुराः ॥ एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः ॥६२॥
छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः ॥ ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः ॥६३॥
कबंधाश्छिन्नशिरसः खङ्गशक्त्यृष्टिपाणयः ॥ तिष्ठ तिष्ठेति भापंतो देवीमन्ये महासुराः ॥६४॥
पतितै रथनागाश्वैरसुरैश्च वसुंधरा ॥ अगम्या साऽभवत्तत्र यत्राभूत्स महारणः ॥६५॥
शोणितौघा महानद्यः सद्यस्तत्र प्रसुस्रुवुः ॥ मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥६६॥
क्षणेन तन्महासैन्यमसुराणां तथाम्बिका ॥ निन्ये क्षयं यथा बह्निस्तृणदारुमहाचयम् ॥६७॥
स च सिंहो महानादमुत्सृजन्धुतकेसरः ॥ शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥६८॥
देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः ॥ यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥६९॥
मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्वितीयः ॥२॥
उवाचमंत्रः ॥१॥
श्लोकमंत्राः ॥६८॥
एवं ॥६९॥
एवमादितः ॥१७३॥ ॥
ऋषिरुवाच ॥१॥
निहन्यमानं तत्सैन्यमवलौक्य महासुरः ॥ सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथांबिकाम् ॥२॥
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ॥ यथा मेरुगिरेः शृंगं तोयवर्षेण तोयदः ॥३॥
तस्य छित्त्वा ततो देवी लीलयैव शरोत्करान् ॥ जघान तुरगान्बाणैर्यतारं चैव वाजिनाम् ॥४॥
चिच्छेद च धनुः सद्यो ध्वजं चा तिसमुच्छ्रितम् ॥ विव्याध चैव गात्रेषु च्छिन्नधन्वानमाशुगैः ॥५॥
स च्छिन्नधन्वा विरथो हताश्चो हतसारथिः ॥ अभ्यधावत तां देवीं खङ्गचर्मधरोऽसुरः ॥६॥
सिंहमाहत्य खङ्गेन तीक्ष्णधारेण मूर्धनि ॥ आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥७॥
तस्याः खङ्गो भुजं प्राप्य पफाल नृपनन्दन ॥ ततो जग्राह शूलं स कोपादरुणलोचनः ॥८॥
चिक्षेप च ततस्तुत्तु भद्रकाल्यां महासुरः ॥ जाज्वल्यमानं तेजोभी रविबिंबमिवांबरात् ॥९॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत ॥ तेन तच्छतधा नीतं शूलं स च महासुरः ॥१०॥
हते तस्मिन्महावीर्ये महिषस्य चमूपतौ ॥ आजगाम गजारुढश्चामरस्रिदशार्दनः ॥११॥
सोऽपि शक्तिं मुमोचाथ देव्यास्तामंबिका द्रुतम् ॥ हुंकाराभिहतां भुमौ पातयामास निष्प्रभाम् ॥१२॥
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ॥ चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥१३॥
ततः सिंहः समुत्पत्य गजकुंभान्तरे स्थितः ॥ बाहुयुद्धेन युयुधे तेनोच्चैस्रिदशारिणा ॥१४॥
युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ ॥ युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥१५॥
ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा ॥ करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥१६॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ॥ दंतमुष्टितलैश्चैव करालश्च निपातितः ॥१७॥
देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् ॥ बाष्कलं भिंदिपालेन बाणैस्ताम्नं तथांधकम् ॥१८॥
उग्रास्यमुग्रवीर्य च तथैव च महाहनुम् ॥ त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१९॥
विडालस्यासिना कायात्पातयामास वै शिरः ॥ दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥२०॥
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ॥ माहिषेण स्वरुपेण त्रासयामास तान् गणान् ॥२१॥
कांश्चित्तुंडप्रहारेण खुरक्षेपैस्तथापरान् ॥ लांगूलताडितांश्चान्यान् शृंगाभ्यां च विदारितान् ॥२२॥
वेगेन कांश्चिदपरान्नादेन भ्रमणेन च ॥ निः श्वासपवनेनान्यान् पातयामास भूतले ॥२३॥
निपात्य प्रमथानीकमभ्यधावत सोऽसुरः ॥ सिंहं हंतुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥२४॥
सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः ॥ शृंगाभ्यां पर्वतानुच्चांश्चिक्षेप च ननात् च ॥२५॥
वेगभ्रमणाविक्षुण्णा मही तस्य व्यशीर्यत ॥ लांगूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥२६॥
धुतशृंगविभिन्नाश्च खंडं खंडं ययुर्धनाः ॥ श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥२७॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ॥ दृष्ट्वा सा चंडिका कोपं तद्वधाय तदाकरोत् ॥२८॥
सा क्षिप्त्वा तस्य वै पाशं तं बबंध महासुरम् ॥ तत्याज माहिषं रुपं सोऽपि बद्धो महामृधे ॥२९॥
ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ॥ छिनत्ति तावत्पुरुषः खङ्गपाणिरदृश्यत ॥३०॥
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ॥ तं खङ्गचर्मणा सार्धे ततः सोऽभून्महागजः ॥३१॥
करेण च महासिंहं तं चकर्ष जगर्ज च ॥ कर्षतस्तु करं देवी खङ्गेन निरकृंतत ॥३२॥
ततो महासुरो भूयो माहिषं वपुरास्थितः ॥ तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ॥ पपौ पुनः पुनश्चैव जहासारुणलोचना ॥३४॥
ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः ॥ विषाणाभ्यां च चिक्षेप चंडिकां प्रति भूधरान् ॥३५॥
सा च तान्प्रहितांस्तेन चूर्णयंती शरोत्करैः ॥ उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥३६॥
देव्युवाच ॥३७॥
गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् ॥ मया त्वयि हतेऽत्रैव गर्जिष्यंत्याशु देवताः ॥३८॥
ऋषिरुवाच ॥३९॥
एवमुक्त्वा समुत्पत्य साऽऽरुढा तं महासुरम् ॥ पादेनाक्रम्यं कंठे च शूलेनैनमताडयत् ॥४०॥
ततः सोऽपि पदाक्रांतस्तया निजमुखात्तदा ॥ अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥४१॥
अर्धनिष्क्रांत एवासौ युध्यमानो महासुरः ॥ तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥४२॥
ततो हाहाकृतं सर्व दैत्यसैन्यं ननाश तत् ॥ प्रहर्ष च परं जग्मुः सकला देवतागणाः ॥४३॥
तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः ॥ जगुर्गधर्वपतयो ननृतुश्चाप्सरोगणाः ॥४४॥
मार्कण्डेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये तृतीयः ॥३॥
उवाच ॥३॥
श्लोकाः ॥४१॥
एवं ॥४४॥
एवमादितः ॥२१७॥ ॥ ॥
॥ ऋषिरुवाच ॥१॥
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ॥ तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥२॥
देव्या यया ततमिदं जगदात्मशक्त्या निः शेशदेवगणशक्तिसमूहमूर्त्या ॥ तामंविकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥३॥
यस्याः प्रभावमतुलं भगवाननंतो ब्रह्मा हरश्च नहि वक्तुमलं बलं च ॥ सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥४॥
या श्रीः स्वयं सुकृतिना भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हदयेषु बुद्धिः ॥ श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥५॥
किं वर्णयाम तव रुपमचिंत्यमेतत्किं चातिवीर्यमसुरक्षयकारि भूरि ॥ किं चाहवेषु चरित्तानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥६॥
हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा ॥ सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥७॥
यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि ॥ स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमत एव जनैः स्वधा च ॥८॥
या मुक्तिहेतुरविचिंत्यमहाव्रता त्वमभ्यस्यसे सुनियतेंद्रियतत्त्वसारैः ॥ मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्याऽसि सा भगवती परमा हि देवी ॥९॥
शब्दात्मिका सुविमलर्ग्यजुषां निधानमुद्गीथरम्यपदपाठवतां च साम्नाम् ॥ देवि त्रयी भगवती भव भावनाय वार्तासि सर्वजगतां परमार्तिहंत्री ॥१०॥
मेधासि देवि विदिताखिलशास्रशारा दुर्गासि दुर्गभवसागरनौरसंगा ॥ श्रीः कैटभारिहदयैककृताधिवासा गौरि त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥
ईषत्सहासममलं परिपूर्णचंद्रबिम्बानुकारि कनकोत्तमकांतिकांतम् ॥ अत्यद्भुतं प्रहतमात्तरुषा तथापि वक्रं विलोक्य सहसा महिषासुरेण ॥१२॥
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालमुद्यच्छशांकसदृशच्छवि यन्न सद्यः ॥ प्राणान्मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितांतकदर्शनेन ॥१३॥
देवि प्रसीद परमाभवती भवाय सद्यो विनाशयसि कोपवती कुलानि ॥ विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥
ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बंधुवर्गः ॥ धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाऽभ्युदयदा भवती प्रसन्ना ॥१५॥
धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति ॥ स्वर्ग प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥१६॥
दुर्गे स्मृता हरसि भीतिमशेषजंतोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥ दारिद्र्यदुः खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥१७॥
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वतु नाम नरकाय चिराय पापम् ॥ संग्राममृत्युमधिगम्य दिवं प्रयांतु मत्वेति नूनमहितान्विनिहंसि देवि ॥१८॥
दृष्टैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ॥ लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहितेषु साध्वी ॥१९॥
खङ्गप्रभा निकरविस्फुरणैस्तथोग्रैः शूलाग्रकांतिनिवहेन दृशो सुराणाम् ॥ यन्नागता विलयमंशुमदिंदुखंडयोग्याननं तव विलोकयता तदेतत् ॥२०॥
दुर्वृत्तवृत्तशमनं तव देवि शीलं रुपं तथैतदविचिंत्यमतुल्यमन्यैः ॥ वीर्य च हंतृ हतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥२१॥
केनोपमा भवतु तेऽस्य पराक्रमस्य रुपं च शत्रुभयकार्यतिहारि कुत्र ॥ चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥२२॥
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ॥ नीता दिवं रिपुगणा भयमप्यपास्तमस्माकमुन्मदसुरारिभवं नमस्ते ॥२३॥
शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके ॥ घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥२४॥
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ॥ भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥
सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥२६॥
खङ्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ॥ कर पल्लवसंगीनि तैरस्मान् रक्ष सर्वतः ॥२७॥
ऋषिरुवाच ॥२८॥
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नदनोद्भवैः ॥ अर्चिता जगतां धात्री तथा गंधानुलेपनैः ॥२९॥
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ॥ प्राह प्रसादसुमुखी समस्तान्प्रणतान्सुरान् ॥३०॥
देव्युवाच ॥३१॥
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् ॥३२॥
देवा ऊचुः ॥३३॥
भगवत्या कृतं सर्व न किंचिदवशिष्यते ॥ यदयं निहतः शत्रुरस्माकं महिषासुरः ॥३४॥
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ संस्मृताऽसंस्मृता त्वं नो हिसेथाः परमापदः ॥३५॥
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ तस्य वित्तर्द्धिविभवैर्धनदारादिसंपदाम् ॥३६॥
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥३७॥
ऋषिरुवाच ॥३८॥
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ॥ तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥३९॥
इत्येतत्कथितं भूप संभूता सा यथा पुरा ॥ देवी देवशरीरेभ्यो जग त्रयहितैषिणी ॥४०॥
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ॥ वधाय दुष्टदैत्यानां तथा शुंभनिशुंभयोः ॥४१॥
रक्षणाय च लोकानां देवानामुपकारिणी ॥ तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते ह्लीं ॐ ॥४२॥
श्रीमार्कडेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थः ॥४॥
उवाचमंत्राः ॥५॥
अर्धमंत्रौ ॥२॥
श्लोकमंत्राः ॥३५॥
एवं ॥४२॥
एवमादितः ॥२५९॥

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP