दुर्गा सप्तशती - मूलषडंगन्यासः

दुर्गा सप्तशतीचा पाठ केल्याने जीवनातील सर्व पापे नष्ट होऊन मुक्ति मिळते.

॥ अथ मूलषडंगन्यासः ॥
ॐ ऐंअंगुष्ठाभ्यां नमः ॥ ॐ ह्लींतर्जनीभ्यां नमः ॥ ॐ क्लींमध्यमाभ्यां नमः ॥ ॐ चामुंडायै अनामिकाभ्यां नमः ॥ ॐ विच्चे कनिष्ठिकाभ्यां नमः ॥ ॐ ऐंह्लींक्लीं चामुंडायै विच्चे करतलकरपृष्ठाभ्यां नमः ॥ एवं हदयादि ॥ ततोऽक्षरन्यासः ॥ ॐ ऐं नमः शिखायाम् ॥ ॐ ह्लींनमो दक्षिणनेत्रे ॥ ॐ क्लींनमो वामनेत्रे ॥ ॐ चांनमो दक्षिणकर्णे ॥ ॐ मुंनमो वामकर्णे ॥ ॐ डांनमो दक्षिण नासायाम् ॥ ॐ यैनमो वामनासायाम् ॥ ॐ विनमो मुखे ॥ ॐ च्चेनमो गुह्ये ॥ एवं विन्यस्याष्टवारं मूलेन व्यापकं कुर्यात्‍ ॥ ॥ अथाङ्गन्यासः ॥ ॐ ऐंप्राच्यै नमः ॥ ॐ ऐंआग्नेय्यै नमः ॐ ह्लींदक्षिणायै नमः ॥ ॐ ह्लींनैऋत्यै नमः ॐ क्लींप्रतीच्यै नमः ॥ ॐ क्लींवायव्यै नमः ॥ ॐ चामुंडायै उदीच्यै नमः ॐ विच्चे ईशान्यै नमः ॥ ॐ ऐंह्लींक्लींचामुंडायै विच्चे ऊर्ध्वायै नमः ॥ ॐ ऐंह्लींक्लींचामुंडायै विच्चे भूम्यै नमः
॥ अथ ध्यानम् ॥
खङ्गं चक्रगदेषुचापपरिघाञ्छूलं भुशुंडीं शिरः शंखं संदधतीं करैस्त्रिनयनां सर्वागभूषावृताम् ॥ नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां यामस्तौत्स्वपिते हरौ कमलजो हंतुं मधुं कैटभम् ॥१॥
अक्षस्त्रक्परशूगदेषुकिलिशं पद्मं धनुः कुंडिकां दण्डं शक्तिमसिं च चर्म जलजं घंटां सुराभाजनम् ॥ शूलं पाशसुदर्शने च दधतीं हस्तैः प्रवालप्रभां सेवे सैरिभमर्दिनीमिह महालक्ष्मी सरोजस्थिताम् ॥२॥
घंटाशूलहलानि शंखमुसले चक्रं धनुः सायकं हस्ताब्जैर्दधतीं घनांतविलसच्छीतांशुतुल्यप्रभाम् ॥ गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महापूर्वामत्र सरस्वतीमनुभजे शुंभादिदैत्यार्दिनीम् ॥३॥
मानसोपचारैः संपूज्य ॥ ' ॐ मां माये महामाले सर्वशक्तिस्वरुपिणि ॥ चतुर्वर्गस्त्वयि न्यस्तस्तस्मान्मां सिद्धिदा भव ' ॥१॥
॥ इति मालां प्रार्थ्य ॥
' ॐ सिद्ध्यै नमः ' इति मालां नत्वा जपेत् ॥ मंत्रार्थस्तु - ' महासरस्वत्यादिरुपे चित्सदास नंदमये चंडिके त्वां ब्रह्मविद्याप्राप्त्यर्थ वयं सर्वदा ध्यायामः ॥ इत्यर्थानुसंधानपूर्वकं नवार्णमंत्रं १०८ वारं जप्त्वा षडंगन्यासं कृत्वा रात्रिसूक्तं जपेत् ॥ तद्वैदिकं पौराणं वा ॥ ॥ तत्रेदं वैदिकम् ॥ रात्रीति सूक्तस्य कुशिक ऋषिः रात्रिर्देवता ॥ गायत्री च्छंदः ॥ श्रीजगदंवाप्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः ॥ ॐ रात्री व्यख्यदायती पुरुत्रा देव्य क्षमिः ॥ विश्वा अधि श्रियोऽधित ॥ ओर्वप्रा अमर्त्या निवतो देव्यु दृतः ॥ ज्योतिषा वाघते तमः ॥ निरु स्वसारमस्कृतोपसं देव्यांयती ॥ अपेदु हासते तमः ॥ सा नौ अद्य यस्या वयं नि ते यामन्नविक्ष्महि ॥ वृक्षे न वसतिं वयः ॥ निग्रामासो अविक्षत नि पद्धंतो नि पक्षिणः ॥ नि श्येनासश्चिदर्थिनः ॥ यावया वृक्यं वृक यवय स्तेनमूम्ये ॥ अथा नः सुतरा भव ॥ उप मा पेपिशत्तमः कृष्ण्म व्यक्तमस्थित ॥ उष ऋणेवं यातय ॥ उप ते गा इवाकरं वृणीष्व दुहितर्दिवः ॥ रात्रि स्तोमं न जिग्युषे ॥ वैदिकम् ॥ अथ पौराणम् ॥ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ॥ निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभु ॥१॥
ब्रह्मोवाच ॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ॥ सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥२॥
अर्धमात्रास्थिता नित्या याऽनुच्चार्या विशेषतः ॥ त्वमेव संध्या सावित्री त्वं देवि जननी परा ॥३॥
त्वयैतद्धार्यते विश्वं त्वयैतत्सृज्यते जगत् ॥ त्वयैतत्पाल्यते देवि त्वमत्स्यंते च सर्वदा ॥४॥
विसृष्टौ सृष्टिरुपा त्वं स्थितिरुपा च पालने ॥ तथा संहतिरुपांते जगतोऽस्य जगन्मये ॥५॥
महाविद्या महामाया महामेधा महास्मृतिः ॥ महामोहा च भवति महादेवि महेश्वरी ॥६॥
प्रकृतिस्त्वं च सर्वस्य गुणत्रयविभाविनी ॥ कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥७॥
त्वं श्रीस्त्वमीश्वरी त्वं ह्लीस्त्वं बुद्धिर्बोधलक्षणा ॥ लज्जा पुष्टिस्तथा तुष्टिस्त्वं शांतिः क्षांतिरेव च ॥८॥
खङ्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा ॥ शंखिनी चापिनी बाणभूशुंडीपरिघायुधा ॥९॥
सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुंदरी ॥ परापराणां परमा त्वमेव परमेश्वरी ॥१०॥
यच्च किंचिक्त्वचिद्वस्तु सदसद्वाऽखिलात्मिके ॥ तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते मया ॥११॥
यगा त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत् ॥ सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥१२॥
विष्णुः शरीरग्रहणमहमीशान एव च ॥ करितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान्भवेत् ॥१३॥
सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता ॥ मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥१४॥
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ॥ बोधश्र क्रियतामस्य हंतुमतौ महासुरौ ॥१५॥
रात्रिसूक्तं पौराणम् ॥
अथ पल्लवयोजनासंपुटीकरणपाठज्ञापकं यथा ॥ पल्लवप्रकारः ॥
सर्वमंगल० इति मंत्रपल्लवे ॐ मार्केडेय उवाच सर्वमंगल० इति प्रणवादिप्रतिसप्तशतीमंत्रांते पल्लवमंत्रं पठेदिति ॥ अथ योजना प्रकारः ॐ सर्वमं० ॐ मार्कडेय उवाच ॥ एवं सप्तशतीप्रतिमंत्रादौ सप्रणवं योजनामंत्रं पठेत् ॥ अथ संपुटीकरणप्रकारः ॥ ॐ शरणा० ॐ मार्कण्डेय उ० ॥ शरणा० एवं सप्तशतीमंत्रादौ मंत्राते च संपुटमंत्रं पठेत् ॥ अयं तु शांतिकपौष्टिकवशीकरणादिशुभकर्मसु ॥ शत्रुविद्रावणोच्चाटनाद्युग्रकर्मसु तु यथा ॐ ह्लूं फट् मार्कडेय उवाच फट् ह्लूं ॐ इति सप्तशतीमंत्रादौ विद्रावणबीजानि पठित्वा तान्येवांते विलोमानि पठेदिति

N/A

References : N/A
Last Updated : June 17, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP