श्रीविष्णुपुराण - तृतीय अंश - अध्याय १७

भारतीय जीवन-धारा में पुराणों का महत्वपूर्ण स्थान है, पुराण भक्ति ग्रंथों के रूप में बहुत महत्वपूर्ण माने जाते हैं।

The Vishnu Purana is a religious Hindu text and one of eighteen Puranas.


श्रीपराशर उवाच

इत्याह भगवानौर्वस्सगराय महात्मने । सदाचारं पुरा सम्यड् मैत्रेय परिपृच्छते ॥१॥

मयाप्येतदशेषेण कथितं भवतो द्विज । समुल्लड्‌घ्य सदाचार कश्चिन्नप्रोति शोभनम् ॥२॥

श्रीमैत्रेय उवाच

षण्ढपविद्धप्रमुखा विदिता भगवन्मया । उदक्याद्याश्च मे सम्यड् नग्नमिच्छमि वेदितुम ॥३॥

को नग्नः किं समाचारो नग्नसंज्ञां नरो लर्भत् । नग्नस्वरूपमिच्छमि यथावत्कथितं त्वया । श्रोतु धर्मभृतं श्रेष्ठ न ह्यास्यविदितं तव ॥४॥

श्रीपराशर उवाच

ऋग्यजुस्सामसंज्ञेयं त्रयी वर्णावृतिर्द्विज । एतामुज्झति यो मोहात्स नग्नः पातकी द्विजः ॥५॥

त्रयी समस्तवर्णानां द्विज संवरणं यतः । नग्नो भवतुज्झितायामतस्तस्यं न संशयः ॥६॥

इदं च श्रुयतामन्यद्यद्भीष्माय महात्मने । कथयामास धर्मज्ञो वसिष्ठोऽस्मप्तितामाहः ॥७॥

मयापि तस्य अदतश्श्रुतमेतन्महात्मनः । नगनसम्बन्धि मैत्रेय यत्पुष्टोऽहमिह त्वया ॥८॥

देवासुरमभूद्युद्धं दिव्यमद्बशतं पुरा । तस्मिन्पराजिता देवा दैत्यैर्ह्नादपुरोगमैः ॥९॥

क्षीरोदस्योत्तरं कूलं गत्वातप्यन्त वै तपः । विष्णोराराधनर्थाय जगुश्चेमं स्तवं तदा ॥१०॥

देवा ऊचुः

आराधनाय लोकानां विष्णुरीशस्य यां गिरम् । वक्ष्यामो भगवानाद्यस्तया विष्णुः प्रसीदतु ॥११॥

यतो भुतान्यशेषाणि प्रसुतानि महात्मनः । यस्मिश्च लयमेष्यन्ति कस्तं स्तोतुमिहेश्वरः ॥१२॥

तथाप्यरातिविध्वंसध्वस्तवीर्याभयर्थिनः । त्वां स्तोष्यामस्तवोक्तिनां याथार्थ्यं नैव गोचरे ॥१३॥

त्वमुर्वी सलिलं वह्निर्वायुराकाशमेव च । समस्तमन्तःकरणं प्रधान तत्परः पुमान् ॥१४॥

एकं तवैतद्भूतात्मन्मूर्तामूर्र्त्तमयं वपुः । आब्रहास्तम्बपर्यंन्तं स्थानकालविभेदवत् ॥१५॥

तत्रेश तव यत्पूर्व त्वन्नाभिकमलोद्भवम् । रूपं विश्वोपकाराय तस्मै ब्रह्मात्मने नमः ॥१६॥

शक्रार्करुद्रवस्वश्विमरुत्सोमादिभेदवत् । वयमेकं स्वरूपं ते तस्मै देवात्मने नमः ॥१७॥

दम्भप्रायमसम्बोधि तितिक्षादमवर्जितम् । यद्रुपं तव गोविन्द तस्मै दैत्यात्मने नमः ॥१८॥

नातिज्ञानवहा यस्मिन्नाड्यः स्तिमिततेजसि । शब्दादिलोभि यस्तस्मै तुभ्यं यक्षात्मने नमः ॥१९॥

क्रौर्यमायामयं घोरं यच्च रूपं तवासितम् । निशाचरात्मने तस्मै नमस्ते पुरुषोत्तम ॥२०॥

स्वर्गस्थधर्मिसद्धर्मफलोपकरणं तव । धर्माख्यं च तथा रूपं नमस्तस्मै जनार्दन ॥२१॥

हर्षप्रायमसंसर्गि गतिमद्गमनादिष । सिद्धाख्यं तव यद्रुपं तस्मै सिद्धात्मने नमः ॥२२॥

अतितिक्षायनं क्रुरमुपभोगसहं हरे । द्विजिह्वं तव यद्रुपं तस्मै नागाम्तने नमः ॥२३॥

अवबोधि च यच्छान्तमदोषमपकल्पषम् । ऋषिरूपात्मने तस्मै विष्णो रूपाय ते नमः ॥२४॥

भक्षयत्यथ कल्पान्ते भुतानि यदवारितम् । त्वदूपं पुण्डरिकाक्ष तस्मै कालात्मने नमः ॥२५॥

सम्भक्ष्य सर्वभुतानि देवादिन्याविशेषतः । नृत्यत्यन्ते च यद्रुप तस्मै रुद्रात्मने नमः ॥२६॥

प्रवृत्या रजसो यच्च कर्मणां करणात्मकम् । जनार्दन नमस्तस्मै त्वद्रुपाय नरात्मने ॥२७॥

अष्टविंशद्वधोपेतं यद्रुपं तामसं तव । उन्मार्गगामि सर्वात्मंस्तसमि वश्यात्मने नमः ॥२८॥

यज्ञांगभूतं यद्रूपं जगतः स्थितिसाधनम् । वृक्षादिभेदैष्षड्‌भेदि तस्मै मुख्यात्मने नमः ॥२९॥

तिर्यड्‌मनुष्यदेवादिव्योमशब्दादिकं च यत । रूपं तवादेः सर्वस्य तस्मै सर्वात्मने नमः ॥३०॥

प्रधानबुद्धयाद्मयादशेषा- द्यदन्यस्मात्परमं परमात्मन् । रूपं तवाद्यं यदनन्यतुल्यं तस्मै नमः कारणकारणाय ॥३१॥

शुक्लादिदीर्घादिघनादिहीन-मनोचरं यच्च विशेषणानाम् । शुद्धातिशुद्धं परमर्षिदृश्यं रूपाय तस्मै भगवन्नताः स्मः ॥३२॥

यन्नः शरीरेषु यदन्यदेहेष्वशेववस्तुष्वजमक्षयं यत् । तस्माच्च नान्यद्‌व्यतिरिक्तमस्ति ब्रह्मस्वरूपाय नताः स्म तस्मै ॥३३॥

स्कलमिदमजस्य यस्य रूपं परमपदात्मवतस्सनातस्य । तमानिधनमशेषबीजभूतं प्रभुमंमलं प्रणतास्स्म वासुदेवम् ॥३४॥

श्रीपराशर उवाच

स्तोत्रस्य चावसाने ते ददृशः परमेश्वरम् । शंखचक्रगदापाणिं गरुडस्थं सुरा हरिम् ॥३५॥

तमुचुस्सकला देवाः प्रणितापपुरस्सरम् । प्रसीद नाथ दैत्येभ्यस्त्राहि नश्शरणार्थिनः ॥३६॥

त्रैलोक्ययज्ञभागाश्च दैत्येर्ह्रादपुरोगमैः । ह्रता नो ब्रह्मणोऽप्याज्ञामुल्लांघय परमेश्वरः ॥३७॥

यद्यप्यशेषभूतस्य वयं ते च तवांशजाः । तथाप्यविद्याभेदेन भिन्नं पश्यामहे जगत् ॥३८॥

स्ववर्णधर्माभिरता वेदमार्गानुसारिणः । न शक्यास्तेऽरयो हन्तुमस्माभिस्तपसावृताः ॥३९॥

तमुपायमशेषात्मन्नस्माकं दातुमर्हसि । येन तानसुरान्हन्तुं भवेम भगवन्क्षमाः ॥४०॥

श्रीपराशर उवाच

इत्युक्तो भगवांस्तेभ्यो मायामोहं शरीरतः । समत्पाद्य ददौ विष्णुः प्राह चेदं सौरोत्तमान् ॥४१॥

मायामोहोऽयमख्लान्दैत्यास्तान्मोहयिष्यति । ततो वध्या भविष्यन्ति वेदमार्गबहिष्कृताः ॥४२॥

स्थितौ स्थितस्य मे वध्या यावन्तः परिपन्थिनः । ब्राह्मणो ह्याधिकारस्य देवदैत्यादिकाः सुराः ॥४३॥

तद्गच्छत न भीः कार्या मायामोहोऽयमग्नतः । गच्छन्नद्योपकाराय भवतां भविता सुराः ॥४४॥

श्रीपराशर उवाच

इत्युक्ता प्रणिपत्यैनं ययुर्देवा यथागतम् । मायामोहोऽपि तैसार्द्ध ययौ यत्र महासुराः ॥४५॥

N/A

References : N/A
Last Updated : April 26, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP