संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - अष्टवर्गफलम्

मानसागरी - अध्याय ४ - अष्टवर्गफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


कष्टं स्याच्चैकरेखायां द्वाभ्यामर्थक्षयो भवेत् । त्रिभिः क्लेशं विजानीयाच्चतुर्भिः समता मता ॥१॥

पञ्चभिः क्षेममारोग्यं षडभिरर्थागमो भवेत् । सप्तभिः परमानन्दमष्टाभिः सर्वकामदम् ॥२॥

रेखास्थाने तु संप्राप्ते यदा पापशुभग्रहाः । शुभास्ते च विजानीयाद्विन्दुस्थाने च दुःखदाः ॥३॥

शुभा च कथिता रेखा बिन्दुश्च कथितोऽशुभा । समे समफलं ज्ञेयं गोचरे यदि नान्तरम् ॥४॥

यदि संस्थितरेखानां फलं पुंसां प्रजायते । लक्ष्मी भोगास्तथा सौख्यं सार्वभौमं जनेशता ॥५॥

यदि संस्थितबिन्दूनां फलं पुंसां प्रजायते । उद्वेगो हानी रोगश्च मृत्युश्चास्य क्रमेण च ॥६॥

यो ग्रहो गोचरे श्रेष्ठस्त्वष्टवर्गेषु मध्यमः । अधमस्तु दशायां हि स ग्रहो ह्यधमाधमः ॥७॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP