संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - रेखाबिन्दुफलम्

मानसागरी - अध्याय ४ - रेखाबिन्दुफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तत्रादौ सूर्यरेखाबिन्दुफलम् ।

वर्त्तते रविरेखा च शत्रूणां च पराजयम् ।

साहसासिद्धिरेवात्र भावजेयमुपस्थिता ॥१॥

बिन्दुः सकष्टफलदको महाव्यसनकारकः ।

रोगशोकप्रदाता च नृपोद्वेगमकारणात् ॥२॥

चन्द्ररेखाबिन्दुफलम् ।

ददाति शशिरेखा च वस्त्राभरणभूषणम् ।

लभते प्रभुसम्मानं कर्मप्राप्तिमिवाम्बरम् ॥३॥

बिन्दुः कष्टफलं चैव कलहं वैरिभिः सह ।

दुःस्वप्नदर्शनं नित्यं धननाशमवाप्नुयात् ॥४॥

भौमरेखाबिन्दुफलम् ।

ददाति भौमजा रेखा अर्थप्राप्तिं सदैव हि ।

आरोग्यमायुर्वृद्धिं च कायकान्तिं प्रदापयेत् ॥५॥

बिन्दुस्तस्य फलं शश्वदुदराग्निरुजस्सदा ।

शिरःशूलःप्रजायेत रक्तपित्तरुजो भवेत् ॥६॥

बुधरेखाबिन्दुफलम् ।

बुधस्य रेखया सौख्यं मिष्टान्नं लभते सदा ।

दानधर्मरतश्चैव द्विजदेवाग्निपूजकः ॥७॥

बिन्दुर्भङ्गप्रदश्चैव कलहं वैरिभिः सह ।

दुःस्वप्नदर्शनं नित्यमवेलाभोजनं तथा ॥८॥

गुरुरेखाबिन्दुफलम् ।

रेखा जीवे जनयति सदा वित्तसौख्यादिपुष्टिं

जायाभोगं जनयति सदा शत्रुहन्ता च नित्यम् ।

मानोत्साहो विभवमतुलं वस्त्रहेमादिवृद्धिं

प्राप्यं सौख्यं भवति ह्यतुलं बन्धुवर्गौपहारम् ॥९॥

बिन्दुः कष्टं विगतधनधीर्मानसं वित्तचिन्ता

मार्ग भङ्गं जनयति सदा पातनं वाहनाद्वा ।

लोकादिष्टं भवति कलहं वाङमयेनापमानं

शत्रुद्वेषं व्ययमपि सदा साहसात्कार्यहानिः ॥१०॥

शुक्ररेखाबिन्दुफलम् ।

शुक्रे रेखा जनयति नरं राज्यसम्मानवृद्धिं

कन्यालाभं सुसुखवपुषं दीर्घामायुश्च धत्ते ।

कैश्चित्क्रीडा भवति बहुधा ज्ञानमेकार्थसिद्धिं

लक्ष्मीलाभं जनयति सुखं सौख्यसंपत्तिवृद्धिम् ॥११॥

बिन्दुः कष्टं भवति हि रिपोर्वित्तनाशपदात्री

जायापीडा कलहमतुलं भूमिनाशं च कष्टम् ।

बुद्धिभ्रंशं व्ययमति सदा पातनं वाजिभिर्वा

मार्गे भङ्गं जनयति सदा सर्वकालं जनानाम् ॥१२॥

शनिरेखाबिन्दुफलम् ।

सौरे रेखा जनयति फलं मृत्युहेत्वर्थसंपत्

कार्ये प्राप्तिं नृपतिसचिवं साधुसंपर्कदाता ।

भूमिप्राप्तिं कितवजयतास्नानदानार्च्चनेषु

मिष्टान्नं स्यान्नृपतिवरदं धान्यसस्येषु वृद्धिः ॥१३॥

बिन्दुः कष्टं नृपतिभयदं बन्धुपीडा विवृद्धा

धातोः शस्त्रैर्विषमपतितैर्वित्तसंहारकर्ता ।

चित्तोद्वेगो भवति बहुधा भूमिनाशं कलिं वा

बुद्धिभ्रंशो भवति च सदा वाहने हानिरेव ॥१४॥

N/A

References : N/A
Last Updated : April 02, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP