संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|चतुर्थोऽध्यायः|
अध्याय ४ - पंचस्वरचक्रम्

मानसागरी - अध्याय ४ - पंचस्वरचक्रम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अथादावुदयं यान्ति तिथिस्वराद्धटीस्वराः । बालस्वरादिकप्रश्ने फलं तस्य वदाम्यहम् ॥१॥

तिथिमुक्तघटीसंख्यां कृत्वा फलमयीं ततः । एवं बाणत्दृते शेषः स्वरस्तत्कालसंभवः ॥२॥

यमुद्दिश्य कृतः प्रश्नः फलं तस्य वदाम्यहम् । यत्र नो दृश्यते किंचित्तत्र प्रश्ने शुभाशुभम् ॥३॥

बालोदये यदा पृच्छा लाभार्थस्वल्पलाभदः । रुजार्ते चिररोगं च गमे हानिः क्षयं रणे ॥४॥

कुमारोदयवेलायां लाभो भवति पुष्कलः । राज्ये नाशं जयं युद्धे यात्रा सर्वार्थसिद्धिदा ॥५॥

युवोदये लभेद्राज्यं क्लेशच्छेदं च तत्क्षणात् । सङ्ग्रामे शत्रुहन्ता च यात्रायां सफलं भवेत् ॥६॥

वृद्धोदयेन लाभः स्यात्क्लेशनात्क्लेशवर्द्धनम् । संग्रामे भङ्गमायाति यात्रायां न निवर्तते ॥७॥

मृत्यूदये यदा प्रष्टा पृच्छति स्वप्रयोजनम् । तत्सर्व मृत्युदं ज्ञेयं युद्धे मृत्युः सभङ्गदः ॥८॥

किंचिल्लाभकरो बालः कुमारस्त्वर्द्धलाभदः । सर्वसिद्धिर्युवा दत्ते वृद्धे हानिर्मृते क्षयः ॥९॥

मृत्युर्बालस्तथा वृद्धः कुमारस्तरुणः स्वरः । यो यस्य पञ्चमस्थाने स स्वरो मृत्युदायकः ॥१०॥

अस्वरः कृष्णपक्षे स शुक्लपक्षे ईश्वरः । पक्षांशकः स्वरे भुक्तिर्मासभुक्त्यर्थमानकम् ॥११॥

नरनामादिमो वर्णो यस्मात्स्वरादधः स्थितः । स स्वरस्तस्य वर्णस्य वर्णस्वर इहोच्यते ॥१२॥

N/A

References : N/A
Last Updated : March 30, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP