संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - बुधफलम्

मानसागरी - अध्याय ३ - बुधफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


खलमतिः किल चञ्चलमानसो बहुलभुक्कलहाकुलितो नरः ।

अकरुणोऽनृणवांश्च बुधे भवेदविगते विगतोप्सितसाधनः ॥१॥

वितरणप्रयतं गुणिनं दिशेद्धहुकलाकुशलं रतिलालसम् ।

धनिनमिन्दुसुतो वृषभस्थितस्तनुजतोऽनुजतोऽतिसुखं नरम् ॥२॥

प्रियवचोरचनासु विचक्षणो द्विजननीतनयः शुभवेषभाक् ।

मिथुनगे जनने शशिनन्दने सदनतो दनतोऽपि सुखं नरम् ॥३॥

कुचरितानि च गीतकथादरो नृपरुचिः परदेशगतिर्नृणाम् ।

किल कुलीरगते शशिभृत्सुते सुरततारतता नितरां भवेत् ॥४॥

अनृततासहितं विमतिं पर सहजवैरकरं कुरुते नरम् ।

युवतिहर्षपरं शशिनः सुतो हरिगतोऽरिगतोन्नतिदुःखितम् ॥५॥

सुवचानानुरतश्चतुरो नरो लिखनकर्मपरो हि वरोन्नतिः ।

शशिसुते युवतिं च गते सुखी सुनयनानयनाञ्चलचेष्टितैः ॥६॥

अमृतवाग्व्ययभाक्खलु शिल्पवित्कुचरिताभिरतिर्बहुजल्पकः ।

व्यसनयुङमनुजः सहिते बुधे वितुलयच्चलगान्वसतीयुतः ॥७॥

कृपणतातिरतिप्रणयश्रमो विहितकर्मसुखोपहतिर्भवेत् ।

धवलभानुसुतेऽलिगते क्षतिस्त्वलसतोलसतोऽपि च वस्तुनः ॥८॥

वितरणप्रणयो बहुवैभवः कुलपतिश्च कलाकुशलो भवेत् ।

शशिसुतेऽत्र शरासनसंस्थिते विहितया हितया रमयान्वितः ॥९॥

रिपुभयेन युतः कुमतिर्नरः स्मरविहीनतरः परकर्मकृत् ।

मकरगे सति शीतकरात्मजे व्यसनतः सनतः पुरुषो भवेत् ॥१०॥

गृहकर्लि कलशे शशिनन्दने वितनुते तनुतामनुदीनताम् ।

धनपराक्रमधर्मविहीनतां विमतितामतितापितशत्रुभिः ॥११॥

परधनादिकरक्षणतत्परो द्विजसुरानुचरो हि नरो भवेत् ।

शशिसुते पृथुरोमसमाश्रिते सुवदनावदनानुविलोकनः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP