संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - तनुभावस्थितराशिफलम्

मानसागरी - अध्याय ३ - तनुभावस्थितराशिफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


मेषोदये रक्ततनुर्मनुष्यः श्लेष्माधिकः क्रोधपरः कृतघ्नः ।

सुमन्दबुद्धिस्थिरतासमेतः पराजितः स्त्रीभृतकैः सदैव ॥१॥

वृषोदये जन्म यदा भवेच्च स्वचित्तरोगं स्वजनापमानम् ।

इष्टैर्वियोगं कलहं च दुःखं शस्त्राभिघातं च धनक्षयं च ॥२॥

तृतीयलग्ने पुरुषोऽतिगौरः स्त्रीरक्तचित्तो नृपपीडितश्च ।

दूतः प्रसन्नः प्रियवाग्विनीतः समूर्द्धजो गीतविचक्षणश्च ॥३॥

कर्कोदये गौरवपुर्मनुष्यो पित्ताधिको कल्पतरुः प्रगल्भः ।

जलावगाहानुरतोऽतिबुद्धिः शुचिः क्षमी धर्मरुचिः सुसेव्यः ॥४॥

सिंहोदये पाण्डुतनुर्मनुष्यः पित्तानिलाभ्यां परिपीडिताङ्गः ।

प्रियामिथोरम्यरसः सुतीक्ष्णः शूरः प्रगल्भः सुतरां चरंताम् ॥५॥

कन्याख्यलग्ने कफपित्तयुक्तो भवेन्मनुष्यः शुभकान्तभावनः ।

श्लेष्मप्रजः स्त्रीविजितो न भीरुर्मायाधिकः कायकदर्थिताङ्गः ॥६॥

तुले विलग्ने च भवेन्मनुष्यो श्लेष्मान्वितः सत्यपरः सदैव ।

पराप्रियः पार्थिवमानयुक्तः सुरार्चने तत्पर एव कल्पः ॥७॥

लग्नेऽष्टके कोपधरो जरावान्भवेन्मनुष्यो नृपपूजिताङ्गः ।

गुणान्वितः शास्त्रकथानुरक्तो प्रमर्दकः शत्रुगणस्य नित्यम् ॥८॥

धनोदये राजयुतो मनुष्यः कार्ये प्रवीणो द्विजदेवरक्तः ।

तुरङ्गयुक्तः सुत्दृदप्रयुक्तो तुरङ्गजङ्घश्च भवेत्सदैव ॥९॥

मृगोदये तोषरतः सुतीब्रो भीरुः सदा पापरतश्च मूर्तिः ।

श्लेष्मानिलाभ्यां परिपीडिताङ्गः सुदीर्घगात्रः परवञ्चकश्च ॥१०॥

घटोदये सुस्थिरतासमेतो वाताधिकस्तोयनिषेवणोक्तः ।

सुत्दृत्स्वगात्रः प्रमदास्वभीष्टः शिष्टानुरक्तो जनवल्लभश्च ॥११॥

मीनोदये तोयरतो मनुष्यो भवेद्विनीतः सुरतानुकूलः ।

सुपण्डितस्सूक्ष्मतनुः प्रचण्डः पित्ताधिकः कीर्तिसमन्वितश्च ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP