संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभवनस्थलाभेशफलम्

मानसागरी - अध्याय ३ - द्वादशभवनस्थलाभेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


अल्पायुर्बलकलितः शूरो दाता जनप्रियः सुभगः ।

लाभपतौ लग्नगते तृष्णादोषान्मृतिं लभते ॥१॥

वित्तगते लाभपतावुत्पन्नमुगल्पभोजनोऽल्पायुः ।

अष्टकपाली रोगी क्रूरैः सौम्ये च धनकलितः ॥२॥

बन्धुश्रीपालनकः सुबान्धवो बन्धुवत्सलः सुभगः ।

लाभेशे सहजगते बन्धूनां रिपुकुलच्छेत्ता ॥३॥

तुर्यस्थे लाभेशे दीर्घायुः पितरि भक्तिभाग्भवति ।

समयैककर्मनिरतः स्वधर्मनिरतो लाभवान्मनुजः ॥४॥

लाभपतिः पुत्रगतः पितृपुत्रस्नेहलं मिथः कुरुते ।

तुल्यगुणं च परस्परं स्वल्पायुर्जायते पुरुषः ॥५॥

षष्ठगते लाभगतौ सुदीर्घरोगी सुवैरिकलितश्च ।

तस्करहस्तान्मृत्युः क्रूरे देशान्तरगतस्य ॥६॥

सप्तमगे लाभेशे तेजस्वी शीलसंपदः पदवी ।

दीर्घायुर्भवति नरस्तथैकदयितापतिर्नित्यम् ॥७॥

एकादशपेऽष्टमगेऽल्पायुर्भवति सुरोगी च ।

जीवन्मृत्युश्च दुःखी भवति नरः सौम्यगगनचरे ॥८॥

एकादशेशे सुकृतालयस्थे बहुश्रुतः शास्त्रविशारदश्च ।

धर्मप्रसिद्धो गुरुदेवभक्तः क्रूरे च बन्धुव्रतवर्जितश्च ॥९॥

मातारि भक्तः सुकृती पितरि द्वेषी सुदीर्घतरजीवी ।

धनवाञ्जननीपालननिरतो लाभाधिके खगते ॥१०॥

लाभाधिपो लाभगतः करोति दीर्घायुषं पुष्कलपुत्रपौत्रम् ।

सुकर्मकं रुपवरं सुशीलं जनप्रधानं विपुलं मनोज्ञम् ॥११॥

द्वादशगे लाभेशे उत्पन्नभुक् स्थिरो भवति रोगी ।

उत्पातरतो मानी दाता च सुखी सदा पुरुषः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP