संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|तृतीयोऽध्यायः|
अध्याय ३ - द्वादशभावस्थनवमेशफलम्

मानसागरी - अध्याय ३ - द्वादशभावस्थनवमेशफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


लग्नगते नवमपतौ देवान् गुरुन्मन्यते महाशूरः ।

कृपणः क्षितिपतिकर्मा स्वल्पग्रासी भवति मतिमान् ॥१॥

नवमपे धनगते वृषलो विदितः सुशीलवान् सत्यः ।

सुकृती वदनव्यङ्गश्चतुष्पदोत्पन्नपीडितः ॥२॥

सहजगते सुकृतपतौ रुपस्त्री बन्धुवत्सलः पुरुषः ।

बन्धुस्त्रीरक्षणकृद्यदि जीवति बन्धुभिः सदा सहितः ॥३॥

सुकृतेशे हिबुकस्थे पितृभक्तः पितृयात्रादिके विदितः ।

विदितः सुकृती पुरुषः पितृकर्मणि रतमतिर्भवति ॥४॥

सुकृतगृहपे सुतस्थे सुकृती देवगुरुपूजने निरतः ।

वपुषा सुन्दरमूर्तिः सुकृतसमेताः सुताः बहवः ॥५॥

शत्रुप्रणतिपरायणधर्माकलितं कलाविकलकायम् ।

दर्शननिन्दानिरतं सुकृतपतिः षष्ठगः कुरुते ॥६॥

नवमपतौ सप्तमगे सत्यवती सुवदना सुरुपा च ।

शीलश्रीयुतदयिता सुकृतयुता जायते नियतम् ॥७॥

दुष्टो जन्तुविघाती गृहबन्धुविवर्जितः सुकृतरहितः ।

नवमेशे निधनगते क्रूरे षण्ढः स विज्ञेयः ॥८॥

सुकृतगतः सुकृतपतिः स्वबन्धुभिः प्रीतिमतुलितसमत्वम् ।

दातारं देवगुरोः स्वजनकलत्रादिषु सक्तम् ॥९॥

नृपकर्माणं शूरं मातापित्रोश्च पूजनं पुरुषम् ।

धर्मख्यातं कुरुते सुकृतपतिर्गगनगृहशीलः ॥१०॥

दीर्घायुर्धर्मपरो धनेश्चरः स्नेहलो नृपतिलाभी ।

सुकृतख्याती सुसुतः सुकृतविभौ लाभभवनस्थे ॥११॥

द्वादशगे सुकृतेशे मानी देशान्तरे सुरुपश्च ।

विद्यावाञ्छुभखेटे क्रूरे च भवेदतिधूर्तः ॥१२॥

N/A

References : N/A
Last Updated : March 25, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP