मानसागरी - अध्याय २ - बुधभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तनुगतशशिपुत्रे कान्तिमांश्चातिदृष्टो विमलमतिविशालः पण्डितस्त्यागशीलः । मितमृदुशुचिभागी सत्यवादी विशाली बहुतरसुखभागी सर्वकालप्रवासी ॥१॥

भवति च पितृभक्तः सुस्थितः पापभीरुर्मृदुतनुखररोमा दीर्घकेशोऽतिगौरः । धनगतशशिसूनौ सत्यवादी विहारी बहुतरवसुभागी सर्वकालप्रवासी ॥२॥

साहसी निजजनैः परियुक्तश्चित्तशुद्धिरहितो हतसौख्यः । मानवः कुशलतेप्सितकर्ता शीतभानुतनयेऽनुजसंस्थे ॥३॥

बहुतरधनपूर्णो भ्रातृहर्ता च पापे बहुतरबहुपत्नी पूर्णगेहे स्वतुङ्गे । तरलमतिरलज्जः क्षीणजङ्घः कृशाङ्गः शिशुवयसि च रोगी बन्धुसंस्थेकुमारे ॥४॥

तनयमन्दिरगे शशिनन्दने सुतकलत्रयुतः सुखभाजनम् । विकचपङ्कचचारुमुखः सुखी सुरगुरुद्विजभक्तियुतः शुचिः ॥५॥

अरिनिकेतनवर्तिशशाङ्कजे रिपुकुलाद्भयदो यदि वक्रगः । यदि च पुण्यगृहे शुभवीक्षिते रिपुकुलं विनिहन्ति शुभप्रदः ॥६॥

तुरगभावगते हरिणाङ्कजे भवति चञ्चलमध्यनिरीक्षितः । विपुलवंशभवः प्रमदापतिः स च भवेच्छुभगे शशिवंशजे ॥७॥

निधनवेश्मनि सत्ययुतः शुभो निधनदोऽतिथिमण्डन एव च । यदि च पापयुते रिपुगेहगे मदनकाम्यजवेन पतत्यधः ॥८॥

नवमसौम्यगृहे शशिनंदने धनकलत्रयु तेन समन्वितः । भवति पापयुते विपथस्थितः श्रुतिविमन्दकरः शशिजोद्यमी ॥९॥

गुरुजनेन हिते निरतो जनो बहुधनो दशमे शशिनन्दने । निजभुजार्जितवित्ततुरङ्गमो बहुधनैर्नियतोऽमितभाषणः ॥१०॥

श्रुतमतिर्निजवंशहितः कृशो बहुधनप्रमदाजनवल्लभः । रुचिरनीलपुर्गुणलोचनो भवति चायगते शशिजे नरः ॥११॥

भवति च व्ययगे शशिनन्दने विकलमूर्तिघरो धनवर्जितः । परकलत्रधने घनचित्तवान् व्यसनदूररतः कृतकः सदा ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP