मानसागरी - अध्याय २ - चन्द्रभावफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


तनुगतकुमुदेशे वित्तपूर्णः सुखी स्याद्वहुतरधनभोगी वीययुक्तः सुदेही । भवति च यदि नीचश्चन्द्रमाः पापगो वा जडमतिरतिदीनः स्यात्तदा वित्तहीनः ॥१॥

धनगतहरिणाङ्के त्यागशीलो मतिज्ञोनिधिरिव धनपूर्णो चञ्चलात्मा सुदुष्टः । जनयति बहुसौख्यं कीर्तिशाली सहिष्णुर्मुखकमलविशाली चन्द्रतुल्यस्वरुपः ॥२॥

शशिनि सहजसंस्थे पापगेहे च नित्यं न भवति बहुभाषी भ्रातृहर्तारिमूर्तिः । भवति च सुखभोगी सौख्यगे रात्रिनाथे सकलधननिधानं शास्त्रकव्यप्रमोदी ॥३॥

बहुतरवसुपूर्णो रात्रिनाथे चतुर्थे प्रियजनहितकारी योषितां प्रीतिकारी । सततमिह सरोगी मांसमत्स्यादिभोगी गजतुरगसमेतः क्रीडते हर्म्यपृष्ठे ॥४॥

तनयगतशशाङ्के वित्तपूर्णः सुखी स्याद्वहुतरसुतयुक्तो वश्यनारीसमेतः । यदि भवति शशाङ्के क्षीणपापारिगेहे युवतिसुखसमूहं पुत्रपौत्रैर्विहीनः ॥५॥

रिपुगृहशशाङ्के क्षीणतानाशकारं न भवति बहुभोगी व्याधिदुःखस्य दाता ॥ यदि गृहमथ तुङ्गः पूर्णदेहः शशाङ्को बहुतरसुखदाता स्यात्तदा मानवानाम् ॥६॥

विमलवपुषि चन्द्रे सप्तमस्थे मनुष्यो रुचिरयुवतिनाथो काञ्चनाढ्यः सुदेही । शशिनि कृशशरीरे पापगे पापदृष्टे न भवति सुखभागी रोगिपत्नीपतिः स्यात् ॥७॥

निधनभवनसंस्थे शीतरश्मौ नराणां निधनमचिरकाले पापगेहे ददाति । निजभृगुरुगेही सौम्यगेही च पूर्णो जनयति बहुदुःखं श्वासकासादिरोगैः ॥८॥

नवमभवनसंस्थे शीतरश्मौ प्रपूर्णे बहुतरसुखभुक्त्या कामिनीप्रीतिकारी । न भवति धनभागी क्षीणगे नीचगे वा विमलपथविरोधी निर्गुणो मूढचेताः ॥९॥

बहुतरधनभागी कर्मसंस्थे हिमांशौ विविधधननिधानं पुत्रदारादिपूर्णः । रिपुकुटिलगृहस्थे कासरोगी कृशाङ्गः पितृयुवतिधनाढ्यः कर्महीनो मनुष्यः ॥१०॥

बहुतरधनभोगी चायसंस्थे शशाङ्के प्रचुरसुखसमेतो दारभृत्यादियुक्तः । शशिनि कृशशरीरे नीचपापारिगेहे न भवति सुखभागी व्याधितो मूढचेताः ॥११॥

व्ययनिलनिवेशे रात्रिनाथे कृशाङ्गः सततहिमसरोगी क्रोधनो निर्धनश्च । निजबुधगुरुगेहे दान्तिकस्त्यागशीलः कृशतनुसुखभोगी नीचसङ्गी सदैव ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP