संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - शनिभावाध्यायः

मानसागरी - अध्याय १ - शनिभावाध्यायः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


चन्द्राच्च प्रथमे सौरिर्जन्मकाले यदा भवेत् ।

प्राणनाशोऽर्थनाशश्च बन्धुनाशस्तथापरे ॥१॥

चन्द्राद्वितीयगो मन्दो जन्मकाले यदा भवेत् ।

मातुश्च कष्टकारी च अजाक्षीरेण जीवति ॥२॥

चन्द्रात्सहजगः सौरिर्जन्मकाले यदा भवेत् ।

बहुकन्या भवेत्पुंस उत्पद्य म्रियते ध्रुवम् ॥३॥

चन्द्राच्चतुर्थगो नूनं शनिर्जन्मनि संभवेत् ।

महापौरुषकारी च शत्रुहन्ता न संशयः ॥४॥

चन्द्रात्पञ्चमगः सौरिर्जन्मकाले यदा भवेत् ।

स्त्री स्याच्छयामलवर्णा च ह्यथवा प्रियवादिनी ॥५॥

रविजः षष्ठगश्चन्द्राज्जन्मकाले यदा भवेत् ।

महाक्लेशी च कष्टी च आयुर्हीनो भवेन्नरः ॥६॥

चन्द्राच्च सप्तमे स्थाने यदा च रविनन्दनः ।

महाधर्मी च दाता च स्त्रीणां बहुकरग्रहः ॥७॥

रविजो ह्यष्टमे स्थाने चन्द्रतो जन्मसंभवः ।

पितुश्च कष्टकारी च बहुदाने शुभं भवेत् ॥८॥

चन्द्रान्नवमगः सौरिर्जन्मकाले यदा भवेत् ।

यदा मुग्धदशाप्राप्तिर्धनहानिर्भविष्यति ॥९॥

चन्द्राद्दशमगः सौरिर्जन्मकाले यदा भवेत् ।

नृपतुल्यो भवेद्देहो कृपणो धनपूरितः ॥१०॥

चन्द्रादेकादशे सौरिर्जन्मकाले यदा भवेत् ।

देहक्लेशी महाकष्टी ह्यधर्मी च न संशयः ॥११॥

द्वादशे भवने सौरिश्चन्द्राच्च पतते यदि ।

निर्धनी भिक्षुकश्चैव धर्मेणैव विवर्जितः ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP