संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - करणफलम्

मानसागरी - अध्याय १ - करणफलम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


बवाख्ये करणे जातो मानी धर्मरतः सदा ।

शुभमङ्गलकर्मा च स्थिरकर्मा च जायते ॥१॥

बालवाख्ये नरो जातस्तीर्थदेवादिसेवकः ।

विद्यार्थसौख्यसंपन्नो राजमान्यश्च जायते ॥२॥

कौलवाख्ये तु जातस्य प्रीतिः सर्वजनैः सह ।

सङ्गतिर्मित्रवर्गैश्च मानवांश्च प्रजायते ॥३॥

तैतिले करणे जातः सौभाग्यधनसंयुतः ।

स्नेही सर्वजनैः सार्द्ध विचित्राणि गृहाणि च ॥४॥

गराख्ये कृषिकर्मा च गृहकार्यपरायणः ।

यद्वस्तु वाञ्छितं तच्च लभ्यते च महोद्यमैः ॥५॥

वाणिज्ये करणे जातो वाणिज्येनैव जीवति ।

वाञ्छितं लभते लोके देशान्तरगमागमैः ॥६॥

अशुभारम्भशीलश्च परदाररतः सदा ।

कुशलो विषकार्येषु विष्टयाखकरणेन च ॥७॥

शकुनौ करणे जातः पौष्टिकादिक्रियाकृतिः ।

औषधादिषु दक्षश्च भिषग्वृत्तिश्च जायते ॥८॥

करणे च चतुष्पादे देवद्विजरतः सदा ।

गोकर्मा गोप्रभुलोंके चतुष्पदचिकित्सकः ॥९॥

नागे च करणे जातो धीवरप्रीतिकारकः ।

कुरुते दारुणं कर्म दुर्भगो लोललोचनः ॥१०॥

किंस्तुघ्नकरणे जातः शुभकर्मरतो नरः ।

तुष्टिं पुष्टिं च माङ्गल्यं सिद्धिं च लभते सदा ॥११॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP