संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - ऋतोरानयनविधिः

मानसागरी - अध्याय १ - ऋतोरानयनविधिः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


रत्नमालायाम् ऋतोरानयनविधिः ।

मृगादिराशिद्वयभानुभोगः षट्कं ऋतूनां शिशिरो वसन्तः ।

ग्रीष्मश्च वर्षाशरदश्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः ॥१॥

 

ऋतुफलम् ।

रुपयौवनसंपन्नो दीर्घसूत्रो मदोत्कटः ।

साधुयुक्तः कामुकश्च शिशिरे जायते नरः ॥१॥

महोद्यमी मनस्वी च तेजस्वी बहुकार्यकृत् ।

नानादेशरसाभिज्ञो वसन्ते जायते नरः ॥२॥

बह्वारम्भो जितक्रोधो क्षुधालुः कामुको नरः ।

दीर्घः शठो बुद्धिमांश्च ग्रीष्मे जातः सदा शुचिः ॥३॥

गुणवान्भोगयुक्तश्च राजपूज्यो जितेन्द्रियः ।

कुशलोऽर्थानुवादी च वर्षाकाले भवेन्नरः ॥४॥

वाणिज्यकृषिवृत्तिश्च धनधान्यसमृद्धिमान् ।

तेजस्वी बहुमान्यश्च शरज्जातो भवेन्नरः ॥५॥

बहुव्याधिर्हीनतेजास्त्रासयुक्तो प्रणिष्ठुरः ।

हस्वपीनगलो भीरुर्हेमन्ते जायते नरः ॥६॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP