संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - युगानयनम्

मानसागरी - अध्याय १ - युगानयनम्

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


युगानयनम् ।

युगं भवेद्वत्सरपञ्चकेन युगानि च द्वादश १२ वर्षषष्टयाम् ॥

युगफलम् ।

मद्यमांसप्रियो नित्यं परदाररतः सदा ।

कविः शिल्परतः प्राज्ञो जायते प्रथमे युगे ॥१॥

वाणिज्ये व्यवहारी च धर्मिष्ठः सत्यसङ्गतः ।

द्रव्यलोभ्यतिपापात्मा युगे जातो द्वितीयके ॥२॥

भोक्ता दाता कृतप्रज्ञो ब्राह्मणो देवपूजकः ।

तेजस्वी धनयुक्तश्च तृतीये फलमश्नुते ॥३॥

वाटिकाक्षेत्रलोभी स्यादोषधीप्रियमानवः ।

धातुवादे धननाशो जायते च चतुर्युगे ॥४॥

पुत्रोत्पत्तिः सदा प्रोक्तो धनवांश्च जितेन्द्रियः ।

पितृमातृप्रियश्चैव जायते पञ्चमे युगे ॥५॥

सर्वदा नीचशत्रुश्च सर्वदा महिषीप्रियः ।

पट्टघातो भयार्त्तश्च युगे षष्ठे च जायते ॥६॥

बहुमित्रप्रियश्चैव व्यापारे कुटिला गतिः ।

शीघ्रगामी तथा कामी जायते सप्तमे युगे ॥७॥

पापकर्त्ता च सन्तुष्टो व्याधिदुःखान्वितस्तथा ।

कर्त्ता च परहिंसाया जायते त्वष्टमे युगे ॥८॥

वापीकूपतडागादिदेवदीक्षातिथिप्रियः ।

भूपतिर्वृत्रहातुल्यो जायते नवमे युगे ॥९॥

राजाधिराजमंत्री च स्थानप्राप्तिमहासुखः ।

सुवेषरुपो दाता च जायते दशमे युगे ॥१०॥

बुद्धिमांश्च सुशीलश्च स्थापकश्चासुरद्विषाम् ।

संग्रामे च भवेच्छूरो जात एकादशे युगे ॥११॥

तेजस्वी च प्रसन्नात्मा नरमध्ये महाजनः ।

कृषिवाणिज्यकर्त्ता च जायते द्वादशे युगे ॥१२॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP