संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|मानसागरी|प्रथमोऽध्यायः|
अध्याय १ - जन्मपत्रीविधिः

मानसागरी - अध्याय १ - जन्मपत्रीविधिः

सृष्टीचमत्काराची कारणे समजून घेण्याची जिज्ञासा तृप्त करण्यासाठी प्राचीन भारतातील बुद्धिमान ऋषीमुनी, महर्षींनी नानाविध शास्त्रे जगाला उपलब्ध करून दिली आहेत, त्यापैकीच एक ज्योतिषशास्त्र होय.

The horoscope is a stylized map of the planets including sun and moon over a specific location at a particular moment in time, in the sky.


पद्धतिः ।

अथ श्रीमन्नृपविक्रमार्कराज्यादमुकसंवत्सरेऽमुकशाके करणगताब्दाधिकमासावमदिनाहर्गणामुकायनामुकगोलगते श्रीसूर्येऽमुकऋतावमुकमासेऽमुकपक्षेऽमुकतिथावमुकवासरे घटीपलामुकनक्षत्रे घटीपलामुकयोगे घटीपलामुककरणेऽत्र दिने सूर्योदयाद्दिनगतघटीपलामुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते भौमे बुधे गुरौ शुक्रे शनौ राहौ केतौ वा अमुकराशिनवांशेऽमुकलग्नाधिपतावमुकराश्यधिपतौ एवं पुण्यतिथौ पञ्चाङ्गशुद्धौ शुभग्रहनिरीक्षितकल्याणवत्यां वेलायां तात्कालिकामुकलग्नोदये संक्रान्तिगतांशघटीपलायनांशाः घटीपलमिश्रप्रमाणघटीपलदिनार्धप्रमाणघटीपलाक्षरनिशार्ध-प्रमाणघटी-पलाक्षरदिनप्रमाणघटीपल-रात्रिप्रमाण घटीपलसंमीलनेऽहोरात्रिप्रमाणघटीपलरविभोग्यलङ्कोदयाद्नतघटीपले उन्नत घटीपलसूर्यपुरुषाकारनक्षत्रं अमुकस्थाने पतितं तत्र कैलासगिरीशिखरे उमामहेश्वरसंवादे विंशोत्तरीदशाप्रमाणेनादावमुकदशामघ्ये जनमामुकसन्ध्यायाममुकयामकेषु वंशोद्भवगङ्गनीरपवित्रोपमामुकान्वयेऽमुकगोत्रेऽमुकपुत्रे अमुकगृहे भार्याऽमुकनाम्नी पुत्ररत्नमजीजनत् ॥ अत्र होराशास्त्रप्रमाणेनामुकनक्षत्रेऽमुकचरणेऽमुकाक्षरेऽमुकस्वरेऽमुकयोनावमुकनाड्याममुकगणेऽमुकवर्णेऽमुकयुञ्जायां तस्य चिरञ्जीवामुकनाम प्रतिष्ठितं स च जिनप्रसादाद्दीर्घायुर्भवतु ॥

जन्मपत्रीविधिः ।

अथ जन्मकुण्डली- कलियुगफलं संवत्सरफलायनफलगोलफलऋतुफलमासफलपक्षफलतिथिफलवारफलदिनजातफलरात्रिजातफलयोगफलकरणफलगणफलयोनिफलवारायुर्लग्नफलांशफलानामग्रेचन्द्रकुण्डलिकाचक्रं चन्द्रकुण्डलीफलम् ॥ चन्द्रात्फलराश्यायुर्भावसाधनार्थ सूर्यादिकमघ्यमसूर्यादिकस्पष्टसूर्यादिकतात्कालिकभावचऋविधिफलसूर्यादीनां भावाविश्वोपकभावोक्तफलद्वादशभुवने नवग्रहाणां द्वादशभुवननिरीक्षणविधिर्द्वादशभुवने नवग्रहाणां फलं द्वादशभवनेशफलं द्वादशभवने द्वादशलग्नफलं द्वादशलग्नानां स्वामिफलं षडवर्गमैत्रीचक्रं षडूवर्गकुंडलीचक्रं पञ्चमहापुरुषयोगफलं सुनफाऽनफादुर्धराकेमद्रुमवोसिवेश्युभयचरीयोगिनी-फलराज योगद्वादशायुर्गतिनवग्रहचक्रनवग्रहफलदीप्तस्वस्थनवप्रकारग्रहफलम् ॥ आरिष्टभङ्गराजयोगगजचक्रम् ॥अश्वक्रम्॥ शतपदचक्रम् ॥ सूर्यकालानलचन्द्रकालानलयमदंष्ट्रात्रिनाडीयन्त्रसर्वतोभद्रचक्रम् ॥ चन्द्रावस्थाचक्रं रश्मिचक्रं रश्मिफलं चौवीसबलतिणरोफलाष्टवर्गाष्टवर्गफलं सर्वाष्टकवर्गचक्रं मैत्रीचक्रं महादशाफलं विंशोत्तर्यष्टोत्तरीसन्ध्यापाचकचक्रमन्तर्दशाचक्रमन्तर्दशाफलमुपदशाचक्रमुपदशाफलम् ॥

N/A

References : N/A
Last Updated : March 20, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP