संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथप्रथमाब्देनिषिद्धानि

धर्मसिंधु - अथप्रथमाब्देनिषिद्धानि

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथप्रथमाब्देनिषिद्धानि ॥

मातापित्नोर्मरणेवर्षपर्यन्तंपरान्नंगन्धमाल्यादिभोगंमैथुनमभ्यङ्गस्त्रानंचवर्जयेत्

ऋतौभार्यामुपेयादेव आर्त्विज्यंलक्षहोममहादानादिकाम्यकर्माणितीर्थयात्नाविवाहादिवृद्धिश्राद्धयुतंकर्ममात्नंशिवपूजांचवर्जयेत्

संध्योपासनदेवपूजापञ्चमहायज्ञातिरिक्तकर्ममात्नंवर्ज्यम् प्रमीतौपितरौयस्यदेहस्तस्याशुचिर्भवेत् ।

नदैवंनापिवापित्र्यंयावत्पूर्णोनवत्सरः इतिकेचित् महातीर्थस्यगमनमुपवासव्रतानिच ।

सपिण्डीश्राद्धमन्येषांवर्जयेद्वत्सरंबुधः अस्यापवादः पत्नीपुत्नस्तथापौत्नोभ्रातातत्तनयःस्त्रुषा ।

मातापितृव्यश्चैतेषांमहागुरुनिपातने कुर्यात्सपिण्डनंश्राद्धंनान्येषांतुकदाचन ।

एकादशाहपर्यन्तंप्रेतश्राद्धंचरेत्सरा पित्नोर्मृतौहनान्येषांकुर्याच्छ्राद्धंतुपार्वणम् ।

गयाश्राद्धंमृतानांतुपूर्णेत्वब्देप्रशस्यते गारुडे तीर्थश्राद्धंगयाश्राद्धंश्राद्धमन्यच्चपैतृकम् ।

अब्दमध्येनकुर्वीतमहागुरुविपत्तिषु केचिद्वर्षान्तसपिण्डनपक्षेपिसर्वएतेनिषेधानतुद्वादशाहसपिण्डनपक्षइत्याहुः

अपरेतुद्वादशाहसपिण्डनपक्षेपिसर्वएतेनिषेधाइत्याहुः अत्रैवंव्यवस्था

वृद्धिप्राप्तिंविनाऽर्वाक्सपिण्डनापकर्षेपिप्रेतस्यपितृत्वप्राप्तिर्वर्षान्तएव कृतेसपिण्डीकरणेनरःसंवत्सरात्परम् ।

प्रेतदेहंपरित्यज्यभोगदेहंप्रपद्यते इत्यादिवचनात् तेनसपिण्डीकरणसत्वेपिवृद्धिदैवपित्र्येष्वनधिकारः

वृद्धिनिमित्तापकर्षेतुवृद्धयादावधिकारइति अतएवकालतत्वनिर्णये

संकटादौमृतपितृकापत्यानांसंस्काराभ्युदयिकंमृतमातापितृकेणपुत्नेणस्वापत्यसंस्कारादिकंच

प्रथमाब्देपिकार्यमित्युक्तम् दर्शमहालयादिश्राद्धस्यनित्यतपर्णस्यचाप्येवमेवव्यवस्थाज्ञेया ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP