संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध ३|
अथाद्यमासिकम्

धर्मसिंधु - अथाद्यमासिकम्

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाद्यमासिकम् तस्यामासादौमासिकंकार्यमितिवचनान्मृताहोमुख्यःकालःसचाशौचप्रतिबन्धादतिक्रान्तइति

तदन्तेएकादशेह्नितत्कार्यम् अतएव ब्राह्मणंभोजयेदाद्येहोतव्यमनलेथवा ।

पुनश्चभोजयेद्विप्रंद्विरावृत्तिर्भवेदिह इतिप्रथममासिकार्थद्वितीयावृत्तिरुक्त

अत्नचद्विरावृत्तिर्भवेदिहेत्युक्तिःषोडशमासिकानांसपिण्डयधिकारार्थमपकृष्यकर्तव्यानांद्वादशाहादौकरणपक्षेयोज्या

तेषामेकादशाहएवकरणपक्षेतुषोडशमासिकानांषोडशावृत्तयएकंमहैकोद्दिष्टमितिसप्तदशावृत्त्यापत्त्याद्विरावृत्तिर्भवेदिहेत्युक्तेरसङ्गतेः

तथाचसपिण्डयधिकारार्थापकृष्याणांमासिकानांद्वादशाहेकरणेएकादशाहेमहैकोद्दिष्टोत्तरमतिक्रान्तः

माद्यमासिकंकरिष्यइतिसंकल्प्याद्यमासिकमात्नमन्नेनामेनवाविप्रेदर्भबटौवाप्रेतमावाह्यकार्यम्

नत्वाद्यमासिकस्याग्नौहोमःपुनश्चभोजयेद्विप्रमितिविशेषवचनात्

इत्थंचमहैकोद्दिष्टमेकमाद्यमासिकमेकमित्येकोद्दिष्टस्याद्विरावृत्तिःस्पष्टैव

येत्वाद्यमासिकातिरेकेणमहैकोद्दिष्टस्यैवद्विरावृत्तिंवदन्तितेभ्रान्ताः

अत्नकेचिदाद्याब्दिकस्यापिमृताहएवकालइतितस्याप्यतिक्रान्तत्वादेकादशाहे

आद्यमासिकमाद्याब्दिकंचतन्त्रेणकरिष्यइतिसंकल्प्यद्वयमपितन्त्रेणकार्यमित्याहुः

अन्येतुमासादौमासिकंकार्यमाब्दिकं वत्सरेगते

इतिवचनाहितीयवर्षारम्भेप्रथमाब्दिकमितिनाब्दिकस्यैकादशाहेऽनुष्ठानमित्याहुः

एवंत्रिपक्षेसपिण्डीकरणपक्षेएकादशाहेआद्यमासिकमूनमासे

ऊनमासिकंद्वितीयमासारम्भेद्वितीयमासिकंपक्षत्नयेत्नैपक्षिकंचैकोद्दिष्टविधिनाः

कृत्वावाशिष्टद्वादशमासिकान्यपकृष्यतथैवकृत्वासपिण्डीकरणम् एवंपक्षान्तरेषूह्यम् ॥

एकादशाहेतन्त्रेणषोडशमासिकापकर्षपक्षेमहैकोद्दिष्टोत्तरंदेशकालौ

संकीर्त्यातिक्रान्तमाद्यमासिकंसपिण्डयधिकारार्थमपकृष्योनमासिकादीन्यूनाब्दिकान्ता

पञ्चदशमासिकानिचतन्त्रेणैकोद्दिष्टेनविधिनाकरिष्यइतिसंकल्प्यतन्त्रेणषोडशापिकुर्यात्

केचिन्मतेत्वतिक्रान्तेआद्यमासिकाद्याब्दिकेऊनमासिकादीनिचेत्यादिसंकल्पः ॥

मासिकानितु आद्यमासिकम् १ ऊनमासिकम् २ द्वितीयमासिकम् ३ त्नैपक्षिकम्

४ तृतीयमासिकम् ५ चतुर्थमासिकम् ६ पञ्चममासिकम् ७ षष्ठम् ८ ऊनषाण्मासिकम्

९ सप्तममासिकम् १० अष्टमम् ११ नवमम् १२ दशमम् १३ एकादशम् १४ द्वादशम्

१५ ऊनाब्दिकम् १६ चेतिक्रमेणज्ञेयानि ॥

N/A

References : N/A
Last Updated : March 04, 2009

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP