संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथश्राद्धकालाः

धर्मसिंधु - अथश्राद्धकालाः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथश्राद्धकालाः तेचप्रायेणामासंक्रान्तियुगादिमन्वादि महालयादयः पूर्वपरिच्छेदउक्ताएव केचित्तुच्यन्ते

महातीर्थप्राप्तिर्व्यतीपातोमृआहोग्रहणद्वयंश्राद्धंप्रतिरुचिःश्रोतियादिब्राह्मणसंपत्तिरर्धोदयकपिलाषष्ट्याद्यलभ्ययोगाग्रहपीडा

दुःस्वप्नदर्शनंनवान्नप्राप्तिर्नवोदकप्राप्तिर्गृहप्रच्छादनादिनिमित्तंचश्राद्धकालाः यदाविष्टिर्व्यतीपातो भानुवारस्तथैवच ॥

पद्मकोनामयोगोयमयनादेश्चतुर्गुणः १ सर्वमासानांकृष्णपक्षेषुश्राद्धमुक्तम् अत्रप्रत्यहंपञ्चम्यादिवायदहःसंपत्त्र्वेतित्रयःपक्षाः

एकदिनपक्षेदर्शएव नारायणवृत्तौतुदर्शश्राद्धेनैवपक्षश्राद्धसिद्धिरुक्ता

सर्वमासेषुदर्शश्राद्धाशक्तोकन्याकुम्भवृषस्थैर्केसतिदर्शत्रयीकत्रदर्शेवाश्राद्धम् साग्निकस्यत्वशक्तस्यपिण्डपितृयज्ञमात्रेणदर्शसिद्धिः

निरग्निकस्यब्राह्मणभोजनमात्रेणधान्यादिद्रव्यदानेनवादर्शसिद्धीःकृष्णपक्षेषुमहालयापरपक्षस्यश्रेष्ठत्वम्

तत्रापिपञ्चदशाहादिपक्षाअन्योपिबहुविस्तरोद्वितीयपरिच्छेदेउक्तः अत्रविशेशान्तरंकालतत्त्वविवेचने

पञ्चदशाहव्यापिमहालयप्रयोगारम्भोत्तरमाशौचपातेकृतमहालयानांवैफल्यम्

तेनशुद्ध्यन्तेकस्यांचित्तिथौसकृन्महालयमात्रमनुष्ठेयम् एवंपञ्चम्यादिपक्षेपि

प्रतिबन्धान्न्तरेप्रतिनिधिद्वाराशेषमाहलयानुष्ठाम्

पितृव्यज्येष्ठभ्रात्रादीनामपुत्राणांमहालयापरपक्षेतत्तन्मृततिथौतदेकपार्वणकमहालयश्राद्धंजीवत्पितृकेणापिकार्यामिति

द्वादशपौर्णिमास्योऽसंभवेमाघीश्रावणीप्रौष्ठपद्योनित्याः कस्मिंश्चित्कृष्णपक्षेप्रतिपदादिपञ्चदशतिथिषुकृत्तिकादिबरण्यन्तनक्षत्रेषु

विष्कम्भादियोगेषुसूर्यादिवारेषुबवअदिकरणेषुचश्राद्धेफलविशेषोक्तेरेतेतिथ्यादयःकाम्यश्राद्धकालाज्ञेयाः इतिसामान्यकालः ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP