संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
दत्तकस्तुजनकपितुः

धर्मसिंधु - दत्तकस्तुजनकपितुः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


दत्तकस्तुजनकपितुःपुत्राद्यभावेजनकपितुः श्राद्धंकुर्याद्धनंचगृह्वीयात्

जनकपालकयोरुभयोःपित्रोःसंतत्यभावेदत्तकोजनकपालकयोरुभयोरपिधनंहरेत् श्राद्धं

चप्रतिवार्षिकमुभयोःकुर्यात्‌ दर्शमहालयादौतुद्वयोःपित्राद्योःश्राद्धंदेयम् तत्र

द्वयोःपित्राद्योःपृथक्‌पिण्डदानम् पित्रादिद्वयद्वयोद्देशेनैकैकोवापिण्डः एवंदत्तकस्यपुत्रोपि

दत्तकजनकस्यपुत्राद्यभावेस्वपितरंपितामहद्वयंप्रपितामहद्वयंचोच्चार्यदर्शादिकंकुर्यात्

तथैवधनंहरेत् एवंदत्तकपौत्रोपितज्जनककुलेप्रपितामहस्यपुत्राद्यभावेपितरंपितामहंचेकमुच्चार्य

प्रपितामहद्वयमुच्चार्यदर्शादिश्राद्धंकुर्यात्प्रपितामहस्यधनंचहरेत्

यद्येषांस्वसुभार्यास्वपत्यंनस्याद्रिक्थंहरेयुःपिण्डंचैभ्यस्त्रिपुरुषंदद्युरित्यादिरेक

पिण्डेद्वावनुकीर्तयेद्रहीतारंचोत्पादयितारंचातृतीयात्पुरुषादित्यादेश्चलौगाक्ष्यादिस्मृतिवचनात्

यदिजनकपालकयोरुभयोरपिपुत्रादिसन्ततिसत्त्वं तदादत्तक उभयोरप्यौर्ध्वदेहिकंवार्षिकादिकंचनकुर्यात्

पालकपितुरौरसपुत्राद्विभक्तेनदत्तकेनदर्शमहालयादिश्राद्धमात्रंपालकपित्रादिपार्वणोद्देशेनकार्यम्

अविभक्तस्यतुतदौरसकृतदर्शादिनैवदत्तकस्यदर्शादिसिद्धिरितिभाती ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP