संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : उत्तरार्ध १|
अथस्त्रीणांदाहाद्यधिकारिणः

धर्मसिंधु - अथस्त्रीणांदाहाद्यधिकारिणः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथस्त्रीणांदाहाद्यधिकारिणः अनूढायाःस्त्रियाःपिता तदभावेभ्रातादिः ऊढायास्तत्पुत्राभावेसपत्‍नीपुत्रः

तदभावेपौत्रप्रपौत्राः तदभावेपतिः तदभावेदुहिता तदभावेदौहित्रः तदभावेपत्युर्भ्राता तदभावेपत्युर्भ्रातृपुत्रः

तदभावेस्नुषा तदभावेपिता पितुरभावेभ्राता तदभावेभ्रातृपुत्रादयः पूर्वोक्ताः

अत्रसर्वत्रपुत्रभिन्नानांपुत्रासन्निधानात्पुत्राभावाद्वाकर्तृत्वविमिस्थितम्

तत्रयदिपुत्रासन्निधानात्कर्तृत्वंतदापुत्रभिन्नैर्दाहमारभ्यसपिण्डीकरणात्प्राचीनकर्मैवकार्यम्

नतुपुत्रभिन्नैःसपिण्डीकरणंकार्यम् पुत्राभावेत्वन्यैःसपिण्डीकरणमपिकार्यम् ।

तत्रापिसपिण्डादिभिर्नृपान्तैर्दाहमारभ्यदशाहक्रियाःकार्याएव ताएवपूर्वाइत्युच्यन्ते

ततएकादशाहमारभ्यसपिण्डीकरणान्तामध्यमसंज्ञास्तासुसपिण्डादीनांकृताकृतत्वम्

तदुर्ध्वाअनुमासिकसांवत्सरिकाद्यास्ताउत्तराख्याःसपिण्डादिभिर्न कार्याएव

इदंचतदीयवृत्त्यादिस्थावरधनस्यचरधनस्यवाग्रहणाभावे

तदन्यतरधनग्रहणेतुसपिण्डादिभिरपिमध्यमोत्तराख्याअपिक्रियाःकार्याएव

राज्ञातुमृतधननसत्त्वेतद्धनद्वारातत्सजातीयवर्णहस्तेनसर्वाअपिक्रियाःकारणीयाएव

धनाभावेतुपूर्वान्ताएवावश्यंकारणीयानान्याः

सपिण्डादिनृपान्तभिन्नानांतुमृतस्यधनाभावेपिस्वधनेनैवसपिण्डीकरणान्तक्रियाकरणमावश्यकम्

मृतस्यधनंगृहीत्वाप्रेतकार्याकरणेनृपान्तानांतद्वर्णवधप्रायश्चित्तम्

पुत्राद्यैर्भ्रातृसंतत्यन्तैर्दौहित्रैश्चतत्पुत्रैश्चत्रिविधाअपिक्रियाधनग्रहणसत्त्वेतदसत्त्वेवापिकार्याएव

तत्रस्त्रीणामुत्तराः क्रियाम्रुताहन्येव नतुदर्शादौ भर्तृश्राद्धेनैवनिर्वाहस्मृतेः

पूर्वमध्यमाख्यास्तुपृथगेवस्त्रीणाम् केचित्पुत्रपत्योरभावेस्त्रीणांदौहित्रादिभिःसपिण्डीकरणरहिता

एवोत्तराःक्रियाःकार्याः सपिण्डीकरणंतुतासांनकार्यम् सपिण्डीकरनाभावेपिएवकोद्दिष्टविधिनावार्षिकादिकंकार्यमित्याहुः

ब्राह्मणस्त्वन्यवर्णानांनकुर्यात्कर्मपैतृकम् ।

कामाल्लोभाद्भयान्मोहात्कृत्वातज्जातितांव्रजेत् १ शूद्रेनापिब्राह्मणस्यनकार्यंपैतृकंक्वचित् ॥

N/A

References : N/A
Last Updated : June 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP