संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
नचैवंघटस्फोटविधिव्यर्थ

धर्मसिंधु - नचैवंघटस्फोटविधिव्यर्थ

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


नचैवंघटस्फोटविधिव्यर्थ इतिवाच्यम् तस्यपारलौकिकदोषपरिहारार्थत्वात्

लोकबहिष्कृतपातकिविषयेसंभाषणादिसंसर्गस्यपातित्यहेतुत्वाभावेऽ

पिपरत्ननरकजनकदोषहेतुत्ववत्पतितेनसहैककुलत्वसंसर्गस्यापीहपातित्यादिदोषहेतुत्वाभावेऽपिपारत्रिकदोषहेतुत्वात्

अत्रचघटस्फोटविधेरवार्थापत्तिविधायमानत्वात् तथाच

पारत्रिकदोषपरिहारार्थघटस्फोटविधिरितिनतद्विधिबलेनपतितमात्रस्यकुलेबहिष्कारः

सत्राख्यंयज्ञः कलौवर्ज्यः ब्रह्महत्त्यादिमहापातकेषुप्रायश्चित्तेननरकनिवृत्तिर्नभवतिकिंत्विहलोकेव्यवहार्यतामात्रंकलौभवति

स्वर्णस्तेयादिषुतुप्रायश्चित्तेननरकनिवृत्तिर्व्यवहार्यताच

केचित्तुरहस्यकृतेषुमहापापेषुरहस्यप्रायश्चित्तंकलौनोपदेष्टव्यमित्याहुः

विप्रादिस्त्रीसंभोगेन भ्रष्टानांशूद्रादीनांप्रायश्चित्तेऽपिसंसर्गोनिषिद्धः यज्ञेपशुमारणंसोमविक्रयश्च विप्राणांकलौवर्ज्यः

ज्येष्ठादिसर्वभ्रातृनांसमभागःकलौस्मृतः । आततायिद्विजानांनोधर्मयुद्धेऽपिहिंसनम् १

अब्धौनौयातुद्विजस्यप्रायश्चित्तेऽपिसंसर्गोन गवार्थेब्राह्मणार्थेचप्राणत्यागःकलौनहि ।

द्विजानांगोपशुद्रदौबोज्यान्नत्वंकलौनहि १ शिष्यस्यगुरुपत्नीषुनचिरंवासशीलता ।

आपदिक्षत्रवैश्यादिवृत्तिंविप्रःकलौत्यजेत् २ कलौद्विजोनहिभवेदश्वस्तनिकजीविकः ।

द्वादशाब्दं गुरौवासंमुखाग्निधमनक्रियाम् ३ यतेर्भिक्षांसर्ववर्णेकलौत्रीणिविवर्जयेत् ।

नवोदकनिषेधंचदक्षिणांगुरुवाञ्छिताम् ३ वृद्धरुग्णादिमरणंजलाग्निपतनादिभिः ।

गोतृप्तिमात्रेभूमिष्ठेपयस्याचमनक्रिया‍ ५ पितृवादेसाक्षिदडंकलौपञ्चविवर्जयेत् ।

घृतदुग्धादिभिःपक्वमन्नंशूद्रात्कलौत्यजेत् ६ भिक्षामटन्यतीरात्रौनवेसद्गहिणांगृहे ।

विधूमसन्नमुसलेकालेभिक्षांकलौत्यजेत् ७ चत्वार्यब्दसहस्त्राणिचत्वार्यब्दशतानिच ।

कलेर्यदागमिष्यन्तितदात्रेतापरिग्रह ८ संन्यासश्चनकर्तव्योब्राह्मणेनविजानता ।

त्रेतापरिग्रहःसर्वाधानम् अर्धाधानंस्मृतंश्रौतस्मार्ताग्न्योस्तुपृथककृतिः सर्वाधानंतयोरैक्यकृतिःपूर्वयुगाश्रया ९

अस्यापवादः यावद्वर्णविभागोऽस्तियावद्वेदःप्रवर्तते । संन्यास्चाग्निहोत्रंचतावत्कुर्यात्कलौयुगे १०

इति शपथाःशकुनाःस्वप्नाःसामुद्रिकमुपश्रुतिः । देवपूजोपहारादेःसंकल्पःकार्यसिद्धये १

प्रश्नोत्तरंकालविदांसंभवन्तिकलौक्वचित् । इतिलोकार्याकार्यनिर्णयः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP