संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
पुत्रत्वेनप्रतिग्रहःकार्यः

धर्मसिंधु - पुत्रत्वेनप्रतिग्रहःकार्यः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अपुत्रेणपुंसास्त्रियावावटप्लक्षाम्रादेःपुत्रत्वेनप्रतिग्रहःकार्यः

देशकालौसंकिर्त्यमहापापक्षयकुलत्रयसमुद्धरणप्रजापतिपुरगमननिरयस्थपित्रृद्धारमधुधारातृप्तिसिद्ध्यर्थं

सपुत्रत्वसिद्ध्यर्थममुकवृक्षंपतिग्रहीष्येइतिसंकल्प्योवासंकृत्वारात्रौअष्टविप्रानाहूयचन्द्रंसंपूज्यजागरं

भूशयनंवाकृत्वाप्रातर्वृक्षंसंपूज्यतच्छायायांविप्रान्संभोज्यपुण्याहंवाचयित्वाप्रार्थयेत्

अपुत्रोभगवन्तोत्रपुत्रप्रतिकृतितरुम् । ग्रहीष्यामिममानुज्ञांकर्तुमर्हथसत्तमाः १

ताम्रपात्रेपञ्चसौवर्णफलानिवीजपञ्चरत्नयुतान्यधिवास्यलोकपालबलीन्दद्यात् ॥

परेद्युस्तिलाज्यचरुभिरष्टशतंवनस्पतिमन्त्रेणहुत्वाजातकर्मादिविवाहान्तसंस्कारान्कृत्वाऽभिषिक्तः

कर्तापुष्पाञ्जलिमादायप्रार्थयेत् येशाखिनःशिखरिणांशिरसा विभूषायेनन्दनादिषुवनेषुकृतप्रतिष्ठाः ।

येकामदाःसुरनरोरगकिन्नराणांतेमे नतस्यदुरितार्तिहराभवन्तु १

एतेद्विजाविधिवदत्रहुतोहुताशःपश्यत्यसौचहिमदीधितिरन्तरस्थः ।

त्वंवृक्षपुत्रपरिकल्प्यमयावृतोऽसिकार्यंसदेवभवताममपुत्रकार्यम् २

अङ्गादङ्गादितिस्पृष्ट्वाविप्रेभ्योदक्षिणांदत्त्वाविसृजेत् इतिवटादितरुपुत्रविधिः ॥

N/A

References : N/A
Last Updated : June 25, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP