संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
अथकेशवादिमूर्तिनिर्णायकः

धर्मसिंधु - अथकेशवादिमूर्तिनिर्णायकः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथकेशवादिचतुर्विंशतिमूर्तिनिर्णायकबोपदेवश्लोकःसिन्धौव्याख्यातः

तस्यायंसंग्रहः केशवादेश्चतुर्बाहोर्दक्षिणोर्ध्वकरक्रमात् । शङ्खचक्रगदापद्मायुधैःकेशवउच्यते १

नारायणः पद्मगदाचक्रशङ्खायुधैःक्रमात् । माधवश्चक्रशङ्खाभ्यांपद्मेनगदयाभवेत् २

गोविन्दोगदयापद्मशङ्खचक्रैःक्रमाद्भवेत् । विष्णुःपद्मेनशङ्खेनचक्रेणगदयाक्रमात् ३

शङ्खपद्मगदाचक्रैर्मधुसूदनईरितः । त्रिविक्रमोगदाचक्रशङ्खपद्मैरनुक्रमात् ४ वामनःशङ्खचक्राभ्यांपद्मेनगदयापिच ।

चक्रेणगदयाशङ्खपद्माभ्यांश्रीधरःस्मृतः ५ ह्रषीकेशःस्मृतश्चक्रपद्मशङ्खगदायुधैः ।

पद्मनाभःपद्मचक्रगदाशङ्खैःक्रमात्स्मृतः ६ दामोदरःशङ्खगदाचक्रपद्मैरुदीर्यते ।

संकर्षणःशङ्खपद्मचक्रायुधगदायुधैः ७ वासुदेवश्चक्रगदापद्मशङ्खाख्यलक्षणेः ।

प्रद्युम्नःस्याच्छङ्खगदापद्मचक्रैःक्रमाद्धृतः ८ अनिरुद्धोगदाशङ्खपद्मचक्रेरनुक्रमात्

पद्मशङ्खगदाचक्रायुधैःस्यात्पुरुषोत्तमः ९ अधोक्षजोगदाशङ्खचक्रपद्मैः करस्थितैः ।

नरसिंहःपद्मगदाशङ्खचक्रायुधैर्भवेत् १० अच्युतः पद्मचक्राभ्यांशङ्खेगदयाक्रमात् ।

जनार्दनश्चक्रशङ्खैःगदापद्माढ्यबाहुभिः ११ उपेन्द्रोगदयाचक्रपद्मशङ्खान्वितैःकरैः ।

चक्रपद्मगदाशङ्खैःकरस्थैःस्यात्क्रमाद्धरिः १२ श्रीकृष्णाख्योगदापद्मचक्रशङ्खैर्मतोविभुः ।

इतिप्रोक्ताःकेश्वादिचतुर्विंशतिमूर्तयः १३ ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP