संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथाश्वलायनस्मार्तहोमः

धर्मसिंधु - अथाश्वलायनस्मार्तहोमः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथाश्वलायनस्मार्तहोमः आचम्यप्राणानायम्यदेशकालौसंकीर्त्यश्रीपरमेश्वरप्रीत्यर्थ

सायमौपासनहोमंप्रातरौपासनहोमंवामुकद्रव्येणकरिष्ये चत्वारिशृंगेतिध्यात्वासोदकहस्तेनत्रिपरिसमुह्यपरिस्तीर्यत्रिःपर्युक्ष्य

होमद्रव्यंसमिद्युतमुत्तरतःस्थितंदर्भेणाववाल्यप्रोक्ष्यत्रिःपर्यग्निकृत्वाऽगेनःपश्चिमतोदर्भेनिधाय विश्वानिन

इत्यभ्यर्च्यप्रजापतिंमनसाध्यायनसमिधमग्नौप्रक्षिप्यतथैवत्यक्त्वासमिधिदीप्तायांशततण्डुलैरग्नयेस्वाहेतिसायं

प्रथमाहुतिः सूर्यायस्वाहेतिप्रातःप्रथमाहुतिः शताधिकतण्डुलैः प्रजापतयइतिमनसोच्चार्यहोमत्यागाभ्यांद्वितीयाहुतिरुभयकाले

परिस्तरणंविसृज्यपरिसमूहनपर्युक्षणेकृत्वोपस्थानम अग्न आयूंशीतितिसृणां शतंवैखानसाअग्निःपवमानोगायत्री

अग्न्युपस्थानेविनियोगः अग्नेत्वन्न इतिचतसृणां गौपायनाबन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्चाग्निर्द्विपदाविराट

अग्न्युपस्थानेवि० प्रजापतेहिरण्यगर्भःप्रजापतिस्त्रिष्टुप प्रजापत्युपस्थानेविनियोगः तंतुंतन्वन्देवाअग्निर्जगतीयद्वा

देवाप्रजापतिर्जगती उपस्थानेविनियोगः हिरण्यगर्भोहिरण्यगर्भःप्रजापतिस्त्रिष्टुप्‌ प्रजाप्रत्युप० इतिवायव्यदेशेतिष्ठन्नुपस्थाय

उपविश्यमानस्तोक इत्यादिनाविभूतिधारणंक्वचिदुक्तम विष्णुंस्मृत्वा अनेनहोमकर्मणापरमेश्वरःप्रीयतामित्यर्पयेत

प्रातस्तुसूर्योनोदिवःसूर्यश्चक्षुःसूर्योगायत्री सूर्योप० उदुत्यंकाण्वःप्रस्कण्वःसूर्योगायत्री सूर्योप० चित्रंदेवानामाङ्गिरसःकुत्सःसूर्यस्त्रिष्टुप

सूर्योप० नमोमित्रस्यसुर्योभितपाःसूर्योजगती सूर्यो० इतिचतुर्भिःपूर्वोक्तेस्त्रिभिःप्राजापत्येश्चोपस्थानम्‍ केचित्प्रातस्तंतुंतन्वन्निति न

पठन्ति पत्नीकुमारीकर्तृकहोमेध्यानोपस्थानादौमन्त्रावर्ज्याः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP