संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथपुनर्विवाहः

धर्मसिंधु - अथपुनर्विवाहः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपुनर्विवाहः दुष्टलग्नेयथोक्तग्रहताराद्यभावेऽन्यत्रापिदुष्टयोगाद्यशुभकाले

कूष्माण्डीघृतहोमादियथोक्तविधिविनासूतकादौचविवाहेजातेतयोरेवदम्पत्योःसुमुहूर्तेपुनर्विवाहः कर्तव्यः

सुरापीव्याधिताधूर्तावंध्यार्थघ्न्यप्रियंवदा । स्त्रीप्रसूश्चाधिवेत्तव्यापुरुषद्वेषिणीतथा १

अधिवेदनंभार्यान्तरकरणम अप्रजांदशमेवर्षेस्त्रीप्रजांद्वादशेत्यजेत । मृतप्रजांपञ्चदशेसद्यस्त्वप्रियवादिनीम १

अत्राप्रियवादोव्यभिचारः प्रतिकूलभाषणरूपस्यतस्यप्रायःकलौसार्वत्रिकत्वात आज्ञासंपादिनीदक्षांवीरसूंप्रियवादिनीम ।

पत्नीत्यक्त्वाभोगार्थमन्योद्वाहीपूर्वभार्यायैस्वधनस्यतृतीयांशंदद्यात निर्धनश्चेत्तांपोषयेत मनुः अधिविन्नातु यानारीनिर्गच्छेद्रोषितागृहात ।

सासद्यःसन्निरोद्धव्यात्याज्यावाकुलसन्निधौ १ अग्निशुश्रूषादिधर्माचरणंज्येष्ठ्यासहकार्यम नतुकनिष्ठया इदंज्येष्ठाया

आज्ञासंपादिनीत्वे यदितुरोषादिशीलेनसमनन्तरोक्तमनुवाक्याज्ज्येष्ठाकुलसन्निधौ

त्यागार्हागृहान्तरेनिरोधार्हावातर्हिकनिष्ठयापिसहधर्मचरेदन्यथाधर्मभ्रंशापातात तथावीरसुतायास्यादाज्ञासंपादिनीचया ।

दक्षाप्रियंवदाशुद्धातामत्रविनियोजयेत १ इतिमाधवीयेस्मृतेश्च द्वितीयविवाहहोमः पूर्वविवाहसंबन्धिगृह्याग्नावेवकार्यः

तदसंभवेलौकिकाग्नौकार्यः लौकिकाग्नौकरणपक्षेद्वितीयविवाहहोमादिनोत्पन्नाग्नेर्गृह्याग्नित्वाद्वयोर्गृह्याग्न्योः संसर्गः कार्यः ॥

N/A

References : N/A
Last Updated : May 28, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP