संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
दत्तकन्यायाविवाहं

धर्मसिंधु - दत्तकन्यायाविवाहं

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


दत्तकन्यायाविवाहंकुर्वनप्रतिग्रहीतापितास्वपित्रादीनुद्दिश्यैवकुर्यात दत्तकस्तुपुत्रो

यदिअधिकार्यन्तराभावाल्लब्धजनकपितृधनस्तदाजनकपित्रादीनप्रतिग्रहीतृपित्रादीश्चपितरौपितामहौप्रपितामहौचनान्दीमुखाइत्येवमुच्चार्यश्राद्धंकुर्यात

एवंमातृपार्वणेमातामहपार्वनेचद्विवचनप्रयोगऊह्यः

यदितुजनकधनग्रहणेधिकार्यन्तरसत्त्वादलब्धजनकधनस्तदाप्रतिगृहीतृपित्रादीनेवोहिश्यकुर्यातूनपितृद्वयोद्देशेन

अत्रसर्वत्र संभ्रमेणक्वचित्क्वचिन्मातृपार्वणपितृपार्वणयोःक्रमवैपरीत्यपातेऽपिसक्रमोनविवक्षितः

सर्वत्रनान्दीश्राद्धेषुपूर्वमातृपार्वणंततःपितुःपार्वणंततोमातामहस्येति क्रमस्यनिश्चितत्वात

बहुचकात्यायनैर्मातृपितामहीप्रपितामह्य इत्यादिनानुलोम्येन पार्वणत्रयेप्युच्चारः

तैत्तिरीयादिभिस्तुप्रपितामहपितामहपितरइत्येवमादिनाव्युत्क्रमेणोच्चारःकार्यः

एकसंस्कार्यस्यानेकसंस्काराणांसहानुष्ठानेनान्दीश्राद्धंसकृदेवएवं यमलयोर्द्वयोः पुत्रयोः

कन्ययोवीविवाहोपनयनादिसंस्काराणांसहैवानुष्ठानेपिनान्दीश्राद्धंसकृदेवयमलयोः

संस्काराणामेकमण्डपेएककालेएकेनकर्त्रासहकरणेदोषोनेत्युक्तम नान्दीश्राद्धेअन्नाभावेआममामाभावेहिरण्यंदद्यातहिरण्या

भावेयुग्मब्राह्मणभोजनपर्याप्तान्ननिष्क्रयीभूतयथाशक्तिकिंचिद्रव्यंस्वाहानप्रमेतिवदेत

अन्यःसर्वोपिविशेषोगर्भाधानप्रकरणेविस्तरेणोक्तस्ततएवानुसंधेयःइतिनान्दीश्राद्धम

ततोमण्डपदेवतास्थापनंग्रहयज्ञश्चस्वस्तिवाचनात्पूर्वनान्दीश्राद्धोत्तरंवाकार्यः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP