संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः

धर्मसिंधु - इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


द्वितीयविवाहसमावर्तनाधानादिषुस्वसंस्कारेषुनान्दीश्राद्धंकुर्वनजीवत्पितृकःपितुःपित्रादीनुद्दिश्यपार्वणत्रयंकुर्यअत

पितुर्मातृपितामहीप्रपितामह्यः पितुः पितृपितामहप्रपितामहाः पितुर्मातामहमातुःपितामहमातुःप्रपितामहानान्दीमुखाइतितत्रोच्चारः

अत्रपितुर्मात्रादिजीवनेतत्पार्वणलोपः मृतपितृकस्तुस्वपित्रादीनुद्दिश्येतित्वसंदिग्धम

पितृपितामहयोर्जीवनेपितामहस्यमात्रादिपार्वणत्रयोद्देशःत्रयाणांजीवनेपितृपार्वणलोपः

तत्रसुतसंस्कारेइवसंस्कारेमातृमातामहयोःपार्वणाभ्यामेवनान्दीश्राद्धसिद्धिः

पित्रादित्रयजीवनेमातृमातामहयोश्चजीवनेप्रपितामहस्यपित्रादिअपर्वणत्रयोद्देशेननान्दीश्राद्धम

एवंप्रथमविवाहेपिकर्त्रन्तराभावातवरएवनान्दीश्राद्धंकुर्वनमृतपितृकःस्वपित्रादिनुद्दिश्यजीवत्पितृकस्तु

पितुःपित्रादीनुद्दिश्यकुर्यात जीवत्पितृपितामहस्तुपितामहस्यपित्रादिपार्वणत्रयोद्देशेन

प्रपितामहस्यपिजीवनेप्रपितामहस्यपित्रादिपार्वणत्रयोद्देशेन वा पितृपार्वणलोपेनवानान्दीश्राद्धम

अत्रसर्वत्रपितुः पितामहादेर्वापित्रादिपार्वणोद्देशपक्षेस्वमात्रुमातामययोर्मरणेपिनस्वमातृमातामहयोः

पार्वणंकिंतुपित्रादेर्मातृमातामहयोरेवेतिज्ञेयम इतिजीवत्पितृकनान्दीश्राद्धप्रयोगः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP