संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथविवाहभेदाः

धर्मसिंधु - अथविवाहभेदाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथविवाहभेदाः ब्राह्मौदैवआर्षःप्राजापत्यआसुरोगाधर्वोराक्षसः पैशाचइत्यष्टौविवाहाः

योग्यवरमाहूयालंकृत्यकन्यादानविधिनातस्मैदानंब्राह्मोविवाहः १ यज्ञेऋत्विककर्मकुर्वतेऽलंकृत्यकन्यार्पनंदैवः

२ वरादेकं गोमिथुनंद्वेवागृहीत्वात्तस्मैकन्यार्पणमार्षः इदंगोमिथुनग्रहणंननिन्दितम तस्यकुमारीपूजनार्थत्वेनकन्याविक्रयाभावात ३

त्वयैतयैवसहगृहधर्मआचरणीयएतस्याजीवनपर्यन्तंविवाहान्तरंचतुर्थाश्रमोवानकार्यइत्याभाश्यकन्यादानं प्राजापत्यः

४ ज्ञातिभ्योयथेच्छंधनंदत्वाविवाहआसुरः ५ वरवध्वोरिच्छयान्योन्यसंयोगोगान्धर्वः ६ युद्धादिनाबलाद्धरणंराक्षसः

७ चौर्येणकन्याहरणंपैशाचः ८ पूर्वचतुर्षुपूर्षः पूर्वःश्रेष्ठः उत्तरेषूत्तरउत्तरोनिन्द्यः तत्रविप्रस्यब्राह्मदेवौप्रशस्तौ क्षत्रियस्यगांधर्वराक्षसौ

आसुरोवैश्यस्यआर्षप्राजापत्यपैशाचाःसर्वेषाम संकटेराक्षसभिन्नासप्तविप्रस्य ब्राह्मदैवेतरेषटक्षत्रियस्य

वैश्यशूद्रयोर्ब्राह्मदैवराक्षसभिन्नाःपञ्ज

सर्वेष्वपिविवाहेषुतत्तत्प्रकारैःकन्यापरिग्रहोत्तर्म्स्वस्वगृह्यरीत्याविवाहओमादिविधिरावश्यकःदानविधिनादान्म्सर्वत्रनभवति

पैशाचादसप्तपदीविधेःपूर्वमन्यस्मै कन्यादेया ब्राह्मादिष्वपिकन्यादानोत्तरमपिसप्तपदीविधेः

पूर्ववरस्यषण्ढत्वादिदोषज्ञानेवरमृतौवाकन्याऽन्यस्मैदेया ब्राह्मविवाहोधायांजातःपुत्रोदशपूर्वान्दशपरानपितृंस्तारयत

दैवोढापुत्रःसप्तसप्त प्राजापत्योढापुत्रःषट्‍षट्‌ आर्षोढापुत्रस्त्रीस्त्रीन

आश्वलायनसूत्रेतुब्राह्मादिषुद्वादशदशाष्टौसप्तचपुर्वानपरांश्चपुत्रस्तारयतइत्युक्तम अन्येषुदुर्विवाहेषुब्रह्मधर्मद्विषःसुताः ।

वाग्दानोत्तरंवरस्यदेशांतरगमनेषण्मासंप्रतीक्ष्यान्यस्मैदेया कन्यायाःशुल्कंप्रदाय गमनेवर्षप्रतीक्षा

यत्तुबलाद्विवाहेसगोत्रत्वक्लीवत्वादिवरदोषेवाकन्यासप्तपदीविध्युत्तरमप्यन्यस्मैदेयेतितत्कलियुगेनिषिद्धम

वाग्दानोत्तरंपातित्यादिदोषाभावेपिकन्यामदातुर्दण्डउक्तः एवंकन्यायाअपस्मारदोषमनुक्त्वादातापि दण्ड्यः

अधर्म्योद्वाहेषुद्विजैर्भोजनादौकृते आसुरेएकरात्रमुपवासोगान्धर्वे त्रिरात्रंराक्षसपैशाचयोश्चांद्रायणंप्रायश्चित्तम

इतिविवाहभेदाः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP