संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथान्त्यकर्माभावप्रतिबन्धनिर्णयः

धर्मसिंधु - अथान्त्यकर्माभावप्रतिबन्धनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथान्त्यकर्माभावप्रतिबन्धनिर्णयः प्रेतकर्माण्यनिर्वर्त्यचरेन्नभ्युदयक्रियाम् । आचतुर्थततःपुंसिपंचमेशुभदंभवेत् १

अत्रप्रेतकर्मपदेनसपिण्डीकरणात्पूर्वभाविकर्माइसपिण्डीकरणंचसपिण्डीकरणोत्तरंपार्वणविधिनोक्तानिमासिकानिचोच्यंते

सपिंडीकरणादर्वागपकृष्यकृतान्यपि । पुनरप्यपकृष्यन्तेवृद्ध्युत्तरनिषेधनात् १ इत्यनुमासिकानाप्यपकर्शोक्तेः

अभ्युदयपदेननादीश्राद्धयुक्तंकर्ममात्रंग्राह्यम् कैश्चिद्विवाहाद्येवग्राह्यमित्युक्तम्

आचतुर्थमितिनान्दीश्राद्धकर्तारंपुरुषमारभ्यजनकचतुःपुरुषीजन्यचतुःपरुषीसन्तानभेदेचचतुः परुषीसगोत्रागृह्यते

तथाचनान्दीश्राद्धकर्तुःपितृपितामहप्रपितामहाःपत्नीसहिताः कर्तुर्भार्यापुत्रपौत्र प्रपौत्रास्तद्भार्याश्चश्रात्तातत्पुत्रपौत्रास्तद्भार्याः

पितृव्यतत्पुत्रपौत्रास्तद्भार्याश्चप्रपितामहस्यपुत्रपौत्रप्रपौत्रास्तद्भार्याश्चैतेषां

अमृतानामनमासिकान्तप्रेतकर्माकरणेमंगलंनकार्यमित्यर्थः

नान्दीश्राद्धकर्ताऽत्रमुख्यएवग्राह्योनतुमातुलादिर्गौणः मृतपितृकस्योपनयनादौसंस्कार्यमारभ्यैवचतुः

पुरुषीगणना मातामहादेर्भिन्नगोत्रत्वेपिनान्दीश्राद्धदेवतात्वातप्रेतकर्माभावेमंगलंनभवति

मातामह्यादेःस्वातन्त्र्येणदेवतात्वाभावात्दशाहान्त्यकर्माभावेपिमंगलप्रतिबन्धोनास्ति

इत्यन्त्यकर्माभावानिमित्तमंगलप्रतिबंधनिर्णयः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP