संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अत्रविशेषः

धर्मसिंधु - अत्रविशेषः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पितामातापितामहः पितामहीपितव्यःपूर्वपत्नीपूर्वस्त्रियाः त्रोभ्रातानूढाभगिनिचैतेषांमरणेविशेषतःप्रतिकूलदोषान्नैवकर्तव्योविवाहः

एतदन्यत्रिपुरुषसपिण्डमरणेशान्त्यादिनादोषंपरिहत्यविवाहःकार्यः संकटेतुपित्रादिमरणेपिकालप्रतीक्षाशान्तिभ्यांदोषंनिर्हत्यविवाहःकार्यः

तत्रव्यवस्था निश्चयोत्तरंमातापित्रोर्द्वयोरपिमरणेकालप्रतीक्षाशान्तिभ्यामपिदोषशान्त्यभावान्नकार्योविवाहः

मातापित्रोरेकैकमरनेतुशान्त्यादिनाविवाहः तत्र पितुरब्दमिहाशौचंतदर्धमातुरेवच । मासत्रयंतुभार्यायास्तदर्धंभ्रातुपुत्रयोः

१ अन्येषातु सपिण्डानामाशौचंमाससंमितम् । तदन्तेशान्तिकंकृत्वाततोलग्नंविधीयते २ प्रतिकूलेनकर्तव्यंलग्नंयावद्रुतुत्रयम् ।

प्रतिकूलेसपिण्डस्यमासमेकंविवर्जयेत् ३ इत्यादिवाक्याश्रयेणव्यवस्थोच्यते

अत्राशौचपदेनप्रतिकूलकृतंविवाहानधिकारमात्रंकालप्रतीक्षार्थमुच्यते

अतःपितृमरणेवर्षोत्तरंविनायकशान्तिंकृत्वासंकटेविवाहःकार्यः अतिसंकटेषण्मासोत्तरं विनायकशान्ति श्रीपूजनादिशान्तिचकृत्वाविवाहः

ततोप्यतिसंकटेमासोत्ररंशान्तिद्वयान्तेविवाहइतिसंकटतारतम्येनपक्षत्रयम् मातुर्मरणेषण्मासान्तेविनायकशान्त्याविवाहः

अतिसंकटेमासान्तेशांतिद्वयंकृत्वोद्वाहः यत्तु प्रमीतपितरौयस्य देहस्तस्याशुचिर्भवेत् । नदैवंनापिवापित्र्यंयावत्पुर्णोनवत्सरः १

इतिपित्रोमृतौवर्षपर्यन्तंसर्वशुभकर्मनिषेधवचनंतत्प्राङ्‌निश्चयात्पित्रोर्मृतौसंकटाभावेवाज्ञेयम् भार्यामरणेमासत्रयान्तेवाश्रीपूजनादिशांतिः

भ्रातृमरणेसार्धमासान्तेमासान्तेवाविनायकशांतिः पुत्रमृतौसार्धमासंमासंवाप्रतीक्ष्य श्रीपूजनादिशांतिः

पितृव्यमरणेमासांतोविनायकशांतिः

पितामह्याअनूढभगिन्याश्चमरणेमासांतेश्रीपूजनादिशांतिः एतदन्यत्रिपुरुषसपिंडमरणेमासांतेश्रीपूजनादि शांतिः ततोविवाहः

गुणवत्तरमातुर्मृतौषण्मासेन मनःएदानपगमेवर्षप्रतीक्षा एवंगुणवत्तरभार्यायाःषण्मासपर्यंतंप्रतीक्षा ज्योतिःप्रकाशेतु

अतिसंकटवशेनमात्रादिमरणेमासाधिकप्रतीक्षायाअसंभवे मासमध्येपिदशाहोत्तरंकंचित्कालं

प्रतीक्ष्योक्तव्यवस्थयाविनायकशांतिश्रीपूजनादिशांतिचकृत्वागांदत्वापुनर्वाग्दानादिचरेदित्युक्तम्

सर्वोप्ययमपवादःसंकटेषुतारतम्येनबुधैयाज्यः अल्पसंकटविषयेमहासंकटविषयकविधिकथनेवक्तुःकर्तुश्चदोषएव

दुर्भिक्षराष्ट्रभंगदिभयेपित्रोर्मरनाशंकायांचनप्रतिकूलम् दीर्घरोगिदूरदेशस्थविरक्तानांकन्यायाःप्रौढत्वेचप्रतिकूलदोषौनेत्यपवादः ।

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP