संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथैषामपवादाः

धर्मसिंधु - अथैषामपवादाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथैषामपवादाः सोदराणामपिसमानसंस्कारौविवाहौचसंकटेअब्दभेदात्कार्यौ चतुर्दिनव्यवधानादेकदिनव्यवधानाद्वाकार्यौ

अतिसंकटेएकदिनेकर्तृभेदेनमण्डपभेदेनवाकार्यो द्वाभ्यांकर्तृभ्यांएकस्मिन्नपिलग्नेएकस्मिन्नपिगृहेभिन्नोदरयोर्विवाहःकार्यः

एवंपूर्वोक्तनिषेधचतुष्टयेपिवर्षभेदेदोषाभावः यमलयोरेककालेएकमण्डपे वासमानसंस्काराणांनदोषः

एवंमातृभेदेपिषण्मासाभ्यन्तरेसमानसंस्कारेदोषेन मातृभेदेएकजातकन्ययोरेकदिनेएकमण्डपेपिवेदीभेदेनविवाहोनदोषायेतिकेचित्

पुरुषत्रयात्मककुलेमङ्गलकार्योत्तरंषण्मासाभ्यन्तरेमुण्डनयुक्तंकर्मनकार्यम् अत्रसर्वत्रपुरुषत्रयगणनाप्रकारःप्रतिकूलविचारेस्पष्टीकरिष्यते

मुण्डनकर्मतुचौलंनामसंस्कारादिकमाधानादिकमभ्युदयार्थमौच्छिकसर्वप्रायश्चित्तादिकंक्षौरप्रापकतीर्थयात्रादिकंचोह्यम्

व्रतबन्धस्तुकात्यायनमते मङ्गलरूपत्वाद्विवाहाद्युत्तरंकार्यः अन्येषांमतेमुण्डनरूपत्वान्नकार्यः

पित्रोरन्त्यक्रियादिप्राप्तमुण्डनमाकस्मिकप्राप्तप्रायश्चित्तमुण्डनमासन्नमरणेनसर्वप्रायश्चित्तीयमुण्डनंचकर्तव्यमेव

नित्यत्वाद्दर्शपूर्णमासचातुर्मास्यादिस्यामुण्डनेपि नदोषः नचमुण्डनंचौलमित्युक्तंव्रतोद्वाहौतुमङ्गलमिति

वचसामण्डनमुण्डनयोःपरिगणनादाधानादीनांदोषइतिवाच्यम् वाक्यस्योदाहरणार्थत्वात्

अन्यथाव्रतोद्वाहान्नचौलकमित्येववक्तव्येमण्डलान्नतुमुण्डनमितिसामान्येन वचनरचनानर्थक्यापातात्

तस्माद्गर्भाधानादिलघुमङ्गलादुद्वाहादिज्येष्ठमङ्गलाच्चाधानादिमुण्डनमपिवर्ज्यमितिभाति

एवंसतिकुलेबहुकर्मोपरोधःस्यादितिचेत् विवाहव्रतचूडोत्तरमङ्गलेषुपिण्डदानादौमासाद्यल्पकालप्रतिबन्धवत्पित्राद्यन्यमरणेल्पकालः

प्रतिकूलनिर्णयवच्चलघुमङ्गलोत्तरंमासाद्यल्पकालमुण्डननिषेधकल्पनंयुक्तिबलादाश्रयणीयमितिभाति

अत्रविषयेप्राचीननिबन्धेषुविशेषोनदृश्यतेतथापिधाष्टर्येनमयोक्तोविशेषोयुक्तश्चेदग्राह्यः

इतिमण्डनमुण्डननिर्णयः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP