संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
अथान्येपिविवाहेनिषेधाः

धर्मसिंधु - अथान्येपिविवाहेनिषेधाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथान्येपिविवाहेनिषेधाः प्रत्युद्वाहोनैवकार्योनैकस्मैदुहितृद्वयम् । नचैकजन्योः पुंसोरेकजन्येतुकन्यके

१ अत्रापवादः सोदरयोः सोदरकन्यकेवत्सरादिकालव्यवधानेमहानद्यादिव्यवधानेवादये पूर्वकन्यायादत्तायाः

मृतौतस्यैववरस्यद्वितीयाकन्यादेया प्रत्युद्वाहोदारिद्र्यादिसंकटेकार्यः सोदराणांतुल्यसंस्कारोवर्षमध्येनिषिद्धः

गृहनिर्माणविवाहौवर्षान्तर्नकार्यौ गृहप्रवेशस्यनिषेधाभावाद्‌गृहप्रवेशोत्तरंविवाहःकार्यः

सोदरयोःपुत्रयोःकन्यापुत्रयोर्वाकन्ययोर्वाविवाहौषण्मासाभ्यन्तरेविशेषतोनिषिद्धौ पुरुषत्रयात्मककुले

विवाहान्मौञ्जीबन्धः षण्मासेनिषिद्धःषण्मासर्शुभंकायत्रयर्नकायम् अत्रशुभकार्यपदेनमौञ्जीविवाहावेव

तेनगर्भाधाननामकर्मादिसंस्काराणांनत्रित्वनिषेधःनवागर्भाधानादिनाचतुष्ट्वादिसंपादनम

नाग्निकार्यत्रयंभवेदित्यनेनैकवाक्यतालाघवादितिभाति भिन्नोदराणामग्निकार्यत्रयंनदोषायेतिकश्चित

केचिन्नकुर्यान्मंगलत्रयमित्यस्यभिन्नार्थत्वंस्वीकृत्ययत्किंचिच्छुभकार्याणामपित्रित्वंनशुभमित्याहुः

पुरुषोद्वाहात् स्त्र्पुद्वाहः पुरुषोद्वाहःषण्मासाभ्यन्तरेनिषिद्धः ज्येष्ठमङ्गलाल्लघुमङ्गलंनकार्यम् बहिर्मण्डपेविहितं

ज्येष्ठमङ्गलम् तद्भिन्नंलघु गर्भाधानादिकस्यप्राप्तकालस्यननिषेधः एवंशान्त्यादेरपिनैमित्तिकस्यप्राप्तकालस्य

ननिषेधः अतिपन्नस्यत्वयंनिषेधः

एवंव्रतोद्यापनादीनांवास्तुप्रवेशादीनांचलघुत्वादेवविवाहाद्युत्तरंनिषेधःइदंनिषेधचतुष्टयंत्रिपुरुषात्मककुलेषण्मासाभ्यन्तरएव

एवंमुण्डनद्वयनिषेधंव्रतबन्धाच्यौलनिषेधंचकेचिदाहुः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP