संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ३|
स्मृत्यर्थसाराद्युक्ताद्विगोत्राः

धर्मसिंधु - स्मृत्यर्थसाराद्युक्ताद्विगोत्राः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ स्मृत्यर्थसाराद्युक्ताद्विगोत्राः ॥ देवरातानांवैश्वामित्रदेवरातौदलेतित्रयः एतेषांसर्वैर्जामदग्न्यैर्विश्वामित्रैश्चाविवाहः

१ धनंजयानांविश्वामित्रमाधुच्छंदसधानंजयैतित्रयः एषांसर्वैर्विश्वामित्रैरत्रिभिश्चापिवाहः अयंविश्वामित्रगणेप्रागुक्तः

२ जातूकर्ण्यानांवासिष्ठात्रेयजातूकर्ण्येति एषांवसिष्ठैरत्रिभिश्चाविवाहः अयंवसिष्ठगणेसिंधावुक्तः

३ पूर्वमत्रिगणेषूक्तानांवामरथ्यादीनामत्रिपुत्रिकापुत्राणांचवसिष्ठात्रिभ्यामविवाहः अत्रिविश्वामित्राभ्यामितिकेचित्

४ पूर्वभरद्वाजगणस्थऋक्षांतरगणत्वेनोक्तानांकपिलानामांगिरसबार्हस्पत्यभारद्वाजवांदनमातवचसेतिपंचप्रवराणांविश्वामित्रभरद्वाजाभ्यामविवाहः

५ पूर्वविश्वामित्रेषूक्तानांकतानांवैश्वामित्रकात्याक्षीलेतित्रिप्रवराणांविश्वामित्रभरद्वाजाभ्यामविवाहः

६ अनेनैवन्यानेपरगोत्रोत्पन्नदत्तकादीनामिदानीतनानामपिद्विगोत्रत्वात

जनकप्रतिग्रहीतृपिर्त्रार्द्वयोरपिसगोत्रैःसहअविवाहोज्ञेयःनात्रपुरुषसंख्या

तेनशतपुरुषोत्तरमपिद्विगोत्रत्वंनापतिक्षत्रियवैश्योतुपुरोहितगोत्रप्रवरावितिसर्वसिद्धांतः ॥

N/A

References : N/A
Last Updated : May 27, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP