संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथमृन्मयलिङ्गेशिवपूजा

धर्मसिंधु - अथमृन्मयलिङ्गेशिवपूजा

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमृन्मयलिङ्गेशिवपूजाचिकिर्षायांतद्विधिः

ॐ हरायनम इतिमृदमाह्रत्यशोधितांतस्यांजलप्रक्षेपेणसंपीड्यतेनपिण्डेन

ॐमहेश्वरायनमइतिलिङ्गंकुर्यात् तच्चलिङ्गमशीतिगुञ्जात्मककर्षादधिकपरिमाणमङ्गुष्ठमात्रंततोधिकंवाकार्यंनन्यूनम् ।

मृन्मयलिङ्गेपञ्चसूत्रसंपादनाभावेपिनदोषः अतएव सप्तकृत्वस्तुलारूढंवृद्धिमेतिनहीयते ।

बाणलिङगमितिप्रोक्तंशेषंमार्मदमुच्यते १ इत्युक्तलक्षणाद्वाणलिङ्गादतिर्दुलभाद्दःसंपाद्य पञ्चसूत्रसंपादनात्सुवर्णादि

लिङ्गांच्चमृन्मयलिङ्गंश्रेष्ठम्द्वापरेपारदंश्रेष्ठंपार्थिवंतुकलौयुगे ।

इतिवचनाच्च ततः ॐशूलपाणये नमः शिवइहप्रतिष्ठितोभवेतिसबिल्वपत्रेपूजापीठेप्रतिष्ठाप्य ध्यायेन्नित्यंमहेशमितिध्यात्वा

ॐपिनाकधृषेनमः श्रीसाम्बसदाशिवइहागच्छइह प्रतिष्ठेहसन्निहितोभवेत्यावाहयेत्

इहद्विजानाम्सर्वत्रमूलमन्त्रोपिज्ञेयःततःॐनमःशिवायेतिमूलमन्त्रेणपाद्यमर्घ्यमाचमनंदत्त्वापशुपतयेनमइतिमूलेनचस्नानं

वस्त्रमुपवीतंगन्धंपुष्पंधूपद्पनैवेद्यफलताम्बूलनीराजनमन्त्रपुष्पाञ्जलीन्दत्त्वाशर्वायक्षितिमूर्तयेनमइतिप्राच्यांपूजयेत्

भवायजलमूर्तयेनमः ईशान्यां रुद्रायाग्निमूर्तये० उदीच्याउग्रायवायुमूर्तयेनमः वायव्यां भीमायाकाशम्० प्रतीच्यां

पशुपतयेयजमानमूर्तयेनमइतिनैऋत्यामहादेवायसोममूर्तयेनमइतिदक्षिणस्यां ईशानायसूर्यमूर्तयेनमैत्याग्नेय्यां

ततःस्तुत्वानमस्कृत्यमहादेवायनमइतिविसर्जयेदितिसंक्षेपः विस्तरस्तुपुरुषार्थचिन्तामणौज्ञेयः

शिवरात्रिश्चेत्पूर्वोक्तपूजाविधिःपार्थिवलिङ्गेपिकार्यः पार्थिवलिङ्गोद्यापनविधि कौस्तुभादौज्ञेयः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP