संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथचतुर्षुयामेषुपूजा

धर्मसिंधु - अथचतुर्षुयामेषुपूजा

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथचतुर्षुयामेषुपूजाचतुष्टयेविशेषःतत्रप्रथमयामेमूलमन्त्रान्तेश्रीशिवायासनंसमर्पयामीतिशिवनाम्नासर्वोपचारसमर्पणम्

द्वितीययामेशिवरात्रौद्वितीययामपूजांकरिष्य इतिसंकल्प्यश्रीशङ्करायासनमितिशङ्करनाम्ना ।

ततोमहानिशिपूजांकरिष्यइतिसंकल्प्यपूर्ववत्पूजा ततस्तृतीययामपूजांकरिष्यइत्युक्त्वा श्रीमहेश्वरायासनमित्यादि ।

एवमेवचतुर्थयामेश्रीरुद्रायेतिरुद्रनाम्नाप्रतियामं तैलाभ्यङ्गपञ्चामृतोष्णोदकशुद्धोदकगन्धोदकाभिषेकाःकार्याः

यज्ञोपवीतान्ते गोरोचनकस्तूरीकुङ्कुमकर्पूरागरुचन्दनमिश्रितानुलेपेनलिङ्गंलेपयेत् पञ्चविंशति

पलमितःसर्वोनुलेपइतिअनुलेपपरिमाणम् यथाशक्तिवा धत्तूरकरवीरकुसुमैर्बिल्वपत्रैश्चपूजनमतिप्रशस्तम्

पुष्पाभावेशालितण्डुलगोधूमयवैःपूजा नैवेद्योत्तरताम्बूलमुखवासौउक्तौ नागवल्लीपत्रक्रमुफलशुक्त्यादिचूर्णेतित्रयंताम्बूलसंज्ञ

एतदेवनारिकेलकर्पूरैलाक्ङ्कोलैःसहितंमुखवाससंज्ञंएतेषामन्यतमद्रव्यालाभेतत्तद्रव्यंस्मरेद्‌बुधसर्वपूजान्तेप्रार्थान

नित्यंनैमित्तिकंकाम्यंयत्कृतंतुमयाशिव । तत्सर्वंपरमेशानमयातुभ्यंसमर्पितम् १ इति शिवरात्रिव्रतंदेवपूजाजपपरायणः ।

करोमिविधिवद्दत्तंगृहाणार्घ्यंनमोस्तुते १ इत्यर्घ्यः एवंयामचतुष्टयेर्घ्यभेदःकौस्तुभे

ततःप्रभातेस्नात्वापुनःशिवंसंपूज्यपूर्वोक्तद्वादशनामाभिर्द्वादश

ब्राह्मणानशक्तावेकंवासंपूज्यतिलपक्वान्नपूर्णान्‌द्वादशकुम्भानेकंवादत्त्वाव्रतम्र्पयेत्

यन्मयाद्यकृतंपुण्यंतद्रुद्रस्यनिवेदितम् । त्वप्रसादान्महादेवव्रतमद्यसमर्पितम् १ प्रसन्नोभवमेश्रीमन्सद्गतिःप्रतिपाद्यताम् ।

त्वदालोकनमात्रेणपवित्रोस्मिनसंशयः १ इति ततोब्राह्मणान्‌भोजयित्वापूर्वनिर्णीतेकालेस्वजनैः सहपारणं कुर्यात् तत्रमन्त्रः

संसारक्लेशदग्धस्यव्रतेनानेनशङ्कर । प्रसीदसुमुखोनाथ ज्ञानदृष्टिप्रदोभव १ इति शिवरात्रिव्रतविधिः ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP