संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथव्रतप्रयोगः

धर्मसिंधु - अथव्रतप्रयोगः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


त्रयोदश्यांकृतैकभक्तश्चतुर्दश्यांकृतनित्यक्रियःप्रातर्मन्त्रेणसंकल्पकुर्यात् शिवरात्रिव्रतंह्येतत्करिष्येहंमहाफलम् ।

निर्विघ्नमस्तुमेवात्रत्वत्प्रसादाज्जगत्पते १ चतुर्दश्यांनिराहारोभूत्वाशंभोपरेऽहनि ।

भोक्ष्येहंभुक्तिमुक्त्यर्थंशरणंमेभवेश्वर २ इति द्विजस्तु रात्रींप्रपद्येजननीमित्यृचावपिपठित्वाजलमुत्सृजेत् ततःसायाह्नेकृष्णतिलैः

स्नानंक्रुत्वाधृतभस्मत्रिपुंड्ररुद्राक्षोनिशामुखेशिवायतनंगत्वाक्षालितपादः स्वाचान्त

उदड्‌मुखोदेशकालौसंकीर्त्यशिवरात्रौप्रथमयामपूजांकरिष्येइतियामचतुष्टयेपूजाचतुष्ट्यचिकीर्षायांसंकल्पः

सकृत्पऊजाचिकीर्षायांश्रीशिवप्रीत्यर्थंशिवरात्रौश्रीशिवपूजांकरिष्यइतिसंकल्पः तत्रादौसामान्यतःपूजाविधिरुच्यते

यामभेदेनविशेषस्तुवक्ष्यतेअस्यश्रीशिवपञ्चाक्षरमन्त्रस्यवामदेवऋषिः अनुष्टुपछंदः श्रीसदाशिवोदेवतान्यासेपूजनेजपेचविनियोगः

वामदेवऋषयेनमःशिरसि अनुष्टुपूछन्दसेनमोमुखे श्रीसदाशिवदेवतायैनमोह्रदि ॐनंतत्पुरुषायनमःह्रदये ॐमंअघोरायनमःपादयोः

ॐशिंसद्योजातायनमःगुह्ये ॐवांवामदेवाय०मूर्ध्नि ॐयंईशानाय० मुखे ॐह्रदयायनमः ॐनंशिरसेस्वाहा ॐमंशिखायैवषट

ॐशिकवचायहुं ॐवांनेत्रत्रयायवौषट्‌ ॐयंअस्त्रायफट्‌ कुंभपूजांविधाय ध्यायेन्नित्यंमहेशंरजतगिरिनिभं

चारुचन्द्रावतंसंरत्नाकल्पोज्वलाङ्गंपरशुमृगवराभीतिहस्तंप्रसन्नम् ।

पद्मासीनंसम्म्तात्सुतममरगणैर्व्याघ्रकृतिवसानंविश्वाद्यंविश्ववद्यंनिखिलभयहरंपञ्चवक्त्रं त्रिनेत्रम् १

इतिध्यात्वाप्राणप्रतिष्ठांकृत्वा स्थाप्यलिङ्गंस्पृशत् ॐभूःपुरुषंसांबसदाशिमावाहयामि

ॐभुवःपुरुषंसांब० औस्वः पुरुषंसांब० ॐभूर्भुवःस्वः पुरुषंसां० इत्यावाहयेत् स्वामिन्सर्वजगन्नाथयावत्पूजावसानकम् ।

तावत्तंप्रीतिभावेनलिङ्गेस्मिन्सन्निधौभव १ इतिपुष्पांजलिदद्यात् स्थावरलिङ्गेपूर्वसंस्कृतचरलिङ्गेचप्राणप्रतिष्ठाद्यावाहनान्तंनकार्यम्

ॐसद्योजातंप्रपद्याइसद्योजातायवैनमोनमः ॐनमःशिवायश्रीसाम्बसदाशिवायनमः आसनंसमर्पयामि ।

स्त्रीशूद्रश्चेत् ॐनमःशिवायेतिपञ्चाक्षरीस्थानेश्रीशिवायनमइतिनमोन्तमन्त्रेणपूर्जयेत् ॐभवेभवेनातिभवेभवस्वमां

ॐ नमः शिवायश्रीसाम्बसदाशिवाय नमः पाद्यंसमर्पयामि । ॐभवोद्भयानमः ॐनमः शिवायश्रीसाम्बस० अर्घ्यं० ।

ॐवामदेवायनः ॐनमःशिवायश्रीसाम्ब० आचमनं० । ॐज्येष्ठायनमः ॐ नमःशिवाय० स्नानं०

ततोमूलमन्त्रेणआप्यायस्वेत्यादिभिश्चपञ्चामृतैः संस्नाप्यआपोहिष्ठेतितिसृभिः

शुद्धोदकेनप्रक्षाल्यएकादशावृत्त्यैकावृच्यावारुद्रेणपुरुषसूक्तेनचचन्दनकुङ्‌कुमकर्पूरवासितजलेनाभिषेकंकृतवा

ॐनमःशिवायेतिस्नानान्तेआचमनंदत्वासाक्षतजलेनतर्पणकार्यम्

ॐ भवंदेवंतर्पयामि १ शर्वं देवंतर्पयामि २ ईशानं देवं तर्पयामि ३ पशुपतिंदेवंतर्पयामि ४ उग्रंदेवत० ५ रुद्रदेवत० ६ भीमं देवत० ७

महान्तंदेवंत०

भवस्यदेवस्यपत्नीतर्पयामि शर्वस्यदेवस्यपत्नीतर्पयामि ईशानस्यदेवस्यपत्नीत० पशुपतेर्देवस्यप०

उग्रस्य देवस्यप० रुद्रस्यदेवस्यप० भीमस्यदेवस्यप० महतोदेवस्यप० ८ ॐज्येष्ठायनमः ॐनमःशिवायश्रीसाम्ब० वस्त्रं०मूलेनाचमनम् ।

ॐरुद्रायनमः ॐनमःशिवाय यज्ञोपवीतं० मूलेनाचमनम् । ॐकालायनमः ॐनमःशिवायश्रीसाम्बसदाशिवायनमः चन्दनं० ।

ॐकलावकरणायनमः ॐनमःशिवायश्रीसाम्बसदाशिवायनमः अक्षतात्० ॐबलविकरणायनमः ॐनमः शिवाय

श्रीसाम्बसदाशिवायनमः पुष्पाणि । सहस्त्रमष्टोत्तरशतंवासहस्त्रादिनामभिर्मूलमन्त्रेणवाबिल्वपत्राणिदद्यात् ॐबलायनमः

ॐनमःशिवायश्रीसाम्बसदाशिवायनमः धूपं० ।

ॐ बलप्रमथनायनमः ॐनमःशिवायसा० दीपं ॐसर्वभूतदमनायनमः ॐनमःशिवाय० नैवेद्यं । मूलेनवैदिकर्मन्त्रैश्चनीराजन० ।

ईशानःसर्वविद्यानामीश्वरःसर्वभूतानांब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॐनमःशिवाय० मन्त्रपुष्पं० ।

भवायदेवायनमः शर्वायदेवायेत्याद्यष्टौबवस्यदेवस्यपत्न्यै इत्याद्यष्टौचनमस्कारान्कृत्वा शिवाय० रुद्राय० पशुपतये०

नीलकण्ठाय० महेश्वराय० हरिकेशाय० विरूपाक्षाय० पिनाकिने० त्रिपुरान्तकाय० शम्भवे० शूलिने० महादेवायनम

इतिद्वादशनामभिर्द्वादशपुष्पाञ्जलीत्दत्वामूलेनप्रदक्षिनानमस्कारात्कृत्वामूलमन्त्रंमष्ठोत्तरशतंजप्त्वाक्षमापयित्वाऽनेन

पूजेनेनश्रीसाम्बसदाशिवःप्रीयतामितिनिवेदयेत् ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP