संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
माघीपूर्णिमा

धर्मसिंधु - माघीपूर्णिमा

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


माघीपूर्णिमापरा अत्रकृत्यम् एवंमाघावसानेतुदेयंभोज्यमवारितम् ।

भोजयेद्विजदांपत्यंभूषयेद्वस्त्रभूषणैः १ कम्बलाजिनरक्तवस्त्राणितूलगर्भचोलकानि

उपानहौप्रच्छादनपटाश्चैतानिमाधवःप्रीयतामित्युक्त्वादेयानि

अथकृतस्यमाघस्नानस्यसाङ्गतार्थमुद्यापनंकरिष्यइतिसंकल्प्य सवित्रे प्रसवितेचपरंधामजलेमम ।

त्वत्तेजसापरिभ्रष्टंपापंयातुसहस्त्रधा १ दिवाकर जगन्नाथप्रभाकरनमोस्तुते ।

परिपूर्णकरिष्येहंमाघस्नानंतवाज्ञया २ इति मन्त्राभ्यामपिसंकल्पः कार्यः

एवंचतुर्दश्यांसंकल्पोपवासाधिवासनमाधवपूजनानिकृत्वापूर्णिमायांतिलचर्वाज्यैष्टोत्तर

शतहोमंकृत्वातिलशर्करागर्भत्रिंशन्मोदकात्मकंवायनंदेयम् तन्त्रमन्त्रौ

सवितःप्रसवस्त्वंहिपरंधामजलेमम । त्त्वत्तेजसापरिभ्रष्टंपापंयातुसहस्त्रधा१ दिवाकरजगन्नाथप्रभाकरनमोस्तुते ।

परिपूर्णकुरुष्वेहमाघस्नानमुषःपते २

इतिततोदम्पत्योःसूक्ष्मवाससीसप्तधान्यानिचदत्त्वाब्राह्मणेभ्योदाम्पत्यायचषड्रसभोजनंदेयम्

तत्रमन्त्रःसूर्योमेप्रियतांदेवोविष्णुमूर्तिर्निरञ्जनः

इति एवंमाघप्लवीयातिभित्त्वादेवंदिवाकरम् । परिव्राडयोगयुक्तश्चरणेचाभिमुखेहतः १ इति ।

N/A

References : N/A
Last Updated : May 13, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP