संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथामत्रदानप्रयोगः

धर्मसिंधु - अथामत्रदानप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


देशकालौसंकीर्त्यसमुद्रमेखलायाःपृथ्व्याःसम्यग्दानफलकामोहमर्धोदयविहितामत्रदानंकरिष्ये

इतिसंकल्प्योपलितेदेशेधौततण्डुलैरष्टदलंकृत्वातत्रचतुःषष्टिपलंचत्वारिंशत्पलंवापिञ्चविंशतिपलंवाकांस्यपात्रंक्रुताग्न्युत्तारणंस्थापयेत्

तत्राष्टगुञ्जातम्कोमाषः चत्वारिंशन्माषाःकर्षः पलंकर्षचतुष्ट्यम् अमरसिंहमतेतु अशीतिगुञ्जात्मकःकर्षः

पलंकर्षचतुष्टयम् कांस्यपात्रेपायसंनिक्षिप्यपायसेष्टदलं

कृत्वातत्कर्णिकायांकर्षतदर्धतदर्धान्यतमपरिमाणहेमलिङ्गंनिधायकांस्यपात्रे

ब्रह्माणंपायसेविष्णुंलिङ्गेशिवंयअथाधिकारंवैदिकैर्मत्रैर्नामभिर्वावाहनाद्युपचारैः

संपूजयएत् ततोविप्रंवस्त्रादिभिःपूजयेत् सुवर्णपायसामत्रंयस्मादेतन्त्रयीमयम् ।

आवयोस्तारकंयस्मात्तद्‌गृहाणद्विजोत्तम १

अमुकगोत्रायामुकशर्मणेतुभ्यंइदंसुवर्णलिंगपायसयुक्तममत्रंसमुद्रमेखलापृथ्वीदानफलकामोहंसंप्रददेनममेतिविप्रहस्तेजलंदद्यात्

विप्रःदेवस्यत्वेतिप्रतिगृह्णीयात् दातादानस्यंपूर्णतार्थमिमांदक्षिणांसंप्रददइतियथाशक्तिहिरण्यंदद्यात् हेमाद्र्याद्युक्तः

प्रकारान्तरेणार्धोदयव्रतप्रयोगोब्रह्मादियुततिलपर्वतत्रयशय्यात्रयगोत्रयदानहोमादिसहितः कौस्तुभेद्रष्टव्यः

इतिश्रीमदनन्तोपाध्यायसूनुकाशीनाथोपाध्यायविरिचितेधर्मसिन्धुसारेपौषमासकृत्यनिर्णयोद्देशः समाप्तः ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP