संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथपौषः

धर्मसिंधु - अथपौषः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपौषः दिवामकरसंक्रमेसंक्रान्त्यनन्तरंचत्वारिंशन्नाड्यःपुण्याः

घटिकाद्यल्पदिनशेषेमकरसंक्रांतौसंक्रान्त्यासन्नपूर्वकालेदिवैवस्नानश्राद्धदानभोजनानिकार्याणि

रात्रौश्राद्धदानादेर्निषेधात्स्वल्पदिनभागेस्नानश्राद्धस्वभोजनादेःकर्तुमशक्यत्वाद्रात्रौभोजननिषेधात्पुत्रवदगृहिणउपवासनिषेधाच्च

तस्मादीदृशेविषयेपरपुण्यकालत्वंबाधित्वामकरसंक्रान्तेःपूर्वभागएवपुण्यत्वंज्ञेयम्

रात्रौपूर्वभागेपरभागेनिशीथेवामकरसंक्रमेउत्तरदिनंपुण्यम् तत्राप्युत्तरदिनपूर्वार्धपुण्यतरम्

तत्रापिसूर्योदयोत्तरंपञ्चनाड्यःपुण्यतमाः

एवंरात्रिसंक्रान्तिविषयेऽन्यत्रापियत्रपूर्वदिनोत्तरार्धस्यपुन्यत्वंतत्रदिनान्तेपञ्चनाडीनांपुण्यतमत्वम्

एवंदिवासंकमेपिसंक्रान्तिसन्निहितनाडीनामकरादिषूत्तरासांकर्कादिषुपूर्वासांपुण्यतमत्वंज्ञयम् यायाःसन्निहितनाड्यस्तास्याः

पुण्यतमाः स्मृताइत्युक्तेः मुहूर्तचिन्तामण्यादौतुसूर्यास्तादूर्ध्वघटीत्रयं

संध्याकालस्तत्रमकरसंक्रमेपरदिनेपुन्यत्वंबाधित्वापूर्वदिनेपुण्यत्वमुक्तंनेदंसर्वत्रधर्मशास्त्रग्रन्थेषुदृश्यते

शुक्लपक्षेतुसप्तम्यांसंक्रांन्तिर्ग्रहणाधिका अत्रकृत्यम् रविसंक्रमणेप्राप्तेनस्नायाद्यस्तुमानवः ।

सप्तजन्मानिरोगीस्यान्निर्धनश्चैवजायते १ इतिवचनान्मनुष्यमात्रास्यस्नानंनित्यम्

एवंश्राद्धमप्यधिकारिणोनित्यम् तच्चपिण्डकम् संक्रान्तौयानिदत्तनिहव्यकव्यानिदातृभिः ।

तानिनित्यंददार्त्यकःपुनर्जन्मनिजन्मनि १ अयनसंक्रान्तौत्रिदिनमुपवासः

यद्वासंक्रान्तिमत्यहोरात्रेपुण्यकालवत्यहोरात्रेवोपवासंकृत्वोक्तपुण्यकालेस्नानदानादि कार्यम् अयमुपवासःसापत्यगृहस्थेननकार्यः

धेनुंतिलमयींराजन्दद्याच्चौवोत्तरायणे । तिलतैलेनदीपाश्चदेयाःशिवगृहेशुभाः १ सतिलैस्तण्डुलैश्चैवपूजयेद्विधिवच्छिवम६ ।

तस्यांकृष्णातिलैःस्नानंकार्यंचोद्वर्तनंतिलैः २ तिलादेयाश्चहोत व्याभक्ष्याश्चौवोत्तरायणे ।

शुक्लतिलैर्देवादितर्पणंकृष्णतिलैः पितृतर्पणंचकार्यम् अत्रशम्भोघृताभिषेकोमहाफलःअत्रसुवर्णयुततिलताम्रपात्रंदेयं

तत्प्रयोगोवक्ष्यते अत्रैवंशिवपूजाव्रतम्

पूर्वदिनेउपोषसंक्रान्तिदिनेतिलोद्वर्तनतिलस्नानातिलतर्पनानिकृत्वाशिवंगव्येनाज्येनमर्दयित्वाशुद्धोदकेनप्रक्षाल्यवस्त्राद्युपचारैःपूजयित्वा

सुवर्णहीरकनीलपद्मरागमौक्तिकमितिपञ्चरत्नानिकर्षार्धसुवर्णवासमर्प्यतिलदिपैःससुवर्णैःसाक्षतैस्तिलैःसंपूज्यघृतकम्बलंदत्त्वावितानचामरेसमर्प्यविप्रेभ्यः

ससुवर्णतिलान्दत्त्वातिलान्हुत्वाविप्रान्यतीश्चसंभोज्यदक्षिणांदत्त्वासतिलंपञ्चगव्यंपीत्वापारणंकुर्यादिति

अत्र वस्त्रदानंमहाफलम् तिलपूर्वमनड्‌वाहं दत्वारोगैः प्रमुच्यते । अत्रक्षीरेणभास्करंस्नापयेत्सूर्यलोकप्राप्तिः

दिवाविषुवायनसंक्रान्तौतस्मिन्दिनेपूर्वरात्रौआगामिरात्रौचानध्यायः

रात्रौतत्संक्रमेतस्यांरात्रौपूर्वदिवसेआगामिदिवसेचेतिपक्षिणीअनध्यायः

अत्ररात्रौसंक्रमेग्रहणवद्रात्रावेवस्नानदानादीतिपक्षःकेश्चिल्लिखितोनसर्वशिष्टसंमतः अयनदिनंतत्परं

करिसंज्ञकंचदिनंशुभेषुवर्ज्यमित्युक्तम् तत्रार्धरात्रादर्वागयनसंक्रान्तौपरंतत्परंचवर्ज्यमितिभातिएवंग्रहणेप्यूह्यम्

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP