संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
भीष्मपञ्चकव्रतमुक्तम्

धर्मसिंधु - भीष्मपञ्चकव्रतमुक्तम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


एकादश्यादिनपञ्चकेभीष्मपञ्चकव्रतमुक्तम् तच्चशुद्धैकादश्यामारभ्यचतुर्दश्याविद्धोदयिकपौर्णमास्यां समापनीयम्

यदिशुद्धैकादश्यामारम्भेक्षयवशेनपौर्णमास्यांपञ्चदिनात्मकव्रतस्माप्तिर्नघटतेतदाविद्धैकादश्यामप्यारम्भः

शुद्धैकादश्यामारम्भेपिदिनवृद्धिवशेनपरविद्धपौर्णमास्यांसमापनेयदिषड्‌दिनापत्तिस्तदाचतुर्दशीविद्धपूर्णिमायामपिसमाप्तिःकार्या

व्रतप्रयोगः कौस्तुभादौज्ञेयः कार्तिकमासे एकादश्यादिपर्वणिचन्द्रतारादिबलान्वितेशिवविष्णुमन्त्रग्रहणादिरूपादीक्षाकर्तव्या

कार्तिकेतुकृतादीक्षानृणांजन्मविमोचनीतिनारदोक्तेःतथात्रतुलसीकाष्ठमालाधारणमुक्तम् स्कान्दद्वारकामाहात्म्येविष्णुधर्मेचि

निवेद्यकेशवेमालांतुलसीकाष्ठंसंभवाम् । वहतेयोनरोभक्त्यातस्यनैवास्तिपातकम् १ तुलसीकाष्ठसंभूतेमालेकृष्णजनप्रिये ।

बिभर्मित्वामहंकण्ठे कुरुमांकृष्णवल्लभम् २ एवंसंप्रार्थ्य विधिवन्मालांकृष्णगलेऽर्पिताम् ।

धारयेत्कार्तिकेयोवैसगच्छेद्वैष्णवंपदम् ३ इतिनिर्णयसिन्धौस्पष्टम् यत्तुतत्रैवमालाधारणप्रकरणान्ते सर्वपुस्तकेष्वदृश्यमानमपि

अत्रमूलंचिन्त्यमितिवाक्यं क्वचिन्निर्णयसिन्धुपुस्तकेदृश्यते तस्यमालाधारणविधिवाक्यानांनाप्रामाणिकत्वेतात्पर्यम्

स्वयमेवस्कन्दपुराणस्थविष्णुधर्मस्थत्वेनोक्तानांस्वयमेवाप्रामाणिकत्वोक्तौ व्याघातप्रसंगात् तुलसीकाष्ठघटितैरुद्राक्शाकारकारितैः ।

निर्मितांमालिकांकण्ठेनिधायार्चनमारभेत् १ तुलसीकाष्ठमालायाभूषितःकर्मआचरन् । पितॄणां देवतानांचकृतकोटिगुणंभवेत् २

इतिपद्मपुराणेपातालखण्डेनवसप्ततितमाध्यायेप्रत्यक्षोपलभ्यमानवचनविरोधाच्च किंत्वाषाढमासप्रकरणे

आषाढशुद्धद्वादश्यामनुराधायोगरहितायांपारणंकार्यमित्युक्त्वातत्रप्रमाणत्वे नाभाकासितपक्षेषु

मैत्राद्यपादेस्वपितिहविष्णुरित्यादीनिभविष्यस्थविष्णुधर्मस्थानिवाक्यानिलिखित्वायथान्तेइदंनिर्मूलमित्युक्तंएवंप्रकरणान्तरेपि

तस्यचमाधवादि मूलग्रन्थेषुनोपलभ्यते इत्येवतत्परिभाषातात्पर्यम् नत्वप्रामाणिकत्वे तथात्वे

भाद्रकार्तिकयोस्तद्वाक्यानुसारेणपारणनिर्णयलेखनासाङ्गत्यप्रसंगात्

कौस्तुभादिसर्वनवीनग्रन्थेषुतद्वाक्यानुसारेणैवनिर्णयस्यासंगत्यापाताच्च

सर्वशिष्टानांतदनुसारेणैवपारणाचरणस्याप्यप्रमाणत्वापत्तेश्च तद्वदत्रापिज्ञेयम् एतेन माधवादिष्वनुपलम्भादेवाप्रामाण्यापत्तिरितिनिरस्तम्

बहूनांमाधवाद्यलिखितानांवाक्यानामाचाराणांचाप्रामाण्यापत्तेह यततु यानियत्तुइत्येमवादिरूपेण

यत्पदोपक्रममनूद्यतानिनिर्मूलानीत्येवमादिरित्यादूष्यन्ते यथाश्रवणद्वादशी प्रकरणे श्रवणस्योत्तराषाढावेधनिषेधकव्याक्यानि

तत्रतेषामप्रमाणत्वे एवसर्वथातात्पर्यमितिसूक्ष्मबुद्धयोविदांकुर्वन्तु

ननुमाधवादिग्रन्थेष्वनुपलम्भान्ननिर्मूलत्वमुच्यतेकिंतुकाष्ठमालाधारणनिषेधवाक्यानांबाधकानामुपलम्भादितइचेत्

किंतानिवाक्यानिसामान्यतःकाष्ठमालाधारणनिषेधकानिदृश्यन्ते विशेषतस्तुलसीकाष्ठामालानिषेधकानिवा

आद्येसामान्यतःकाष्ठमालानिषेधकवाक्यानां

विशेषरूपैस्तुलसीधात्रीकाष्ठमालाधारणविधिवाक्यैर्बाधःस्पष्टःद्वितीयेषोडशीग्रहणाग्रहणवद्विहितप्रतिषिद्धतवेनविकल्पमवगच्छ

सचविकल्पेवैष्णवावैष्णवविषयतयाव्यवस्थितोभविष्यति मूलवाक्येषुविष्ण्वादिपदश्रवणादितिननिर्मूलत्वसंभवः

अतएवैतद्वाक्यानांमाधवाद्यनुल्लेखस्याशयोहरिवासरलक्षणवाक्येपुरुषार्थचिन्तामणैवैष्णवानामेवावश्यकत्वादेतदनुपन्यासेपिमाधवादीनां

नन्यूनतेत्युक्तयारीत्योहितुंशक्यः एवंधात्रीकाष्ठमालाधारणविधिर्ज्ञेयः रामार्चनचन्द्रिकादौतुलसीकाष्ठमालयाजपविधिवाक्यानि

तुलसीकाष्ठघटितैर्मणिभिर्जपमालिकेत्यादीनिस्पष्टानि एवंग्रन्थान्तरेषुबहूनिवाक्यान्युपलभ्यन्ते

तथाचप्रयोगपारिजाताह्निकेपूजाप्रकरणेउक्तम्

आदौदेवपूजासाधनमग्रोदकगन्धपुष्पाक्षतादिकंसंभृत्यपादौपाणीप्रक्षाल्ययथाशक्तिघृतदुकूलादिशुद्धवस्त्रोभूषणभूषितोमुक्ताफलप्रवालपद्माक्षतुलसीमणिनिर्मितमालाः

कण्ठेधृत्वाइतिसर्वदेशी यवैश्णवेषुतुलसीकाष्ठमालाधारनजपाचारश्चोपलभ्यतेभस्मादिधारनद्वेषिवैष्णवस्पर्धयाशैवागमाग्राहिभिः

केवलंद्विष्यतइत्यलंवहूनेतिदिक्‍ ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP