संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथकार्तिकमासः

धर्मसिंधु - अथकार्तिकमासः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


वृश्चिकसंक्रान्तौपूर्वा षोडशनाड्यःपुण्याः शेषंप्राग्वत् अथकार्तिकशुक्लप्रतिपत्कृत्यम् अत्राभ्यङ्ग आवश्यकः

एवंचचतुर्दश्यादिदिनत्रयेभ्यङ्गाद्युत्सवस्याकरणेनरकादिदोषश्रवणात्करणेलक्ष्मीप्राप्यलक्ष्मीपरिहारादिफलश्रवणाच्चनित्यकाम्योभयरूपत्वम्

अस्यांप्रतिपदिबलिपूजादीपोत्सवोगोक्रीडनंगोवर्धनपूजामार्गपालीबन्धनंवष्टिकाकर्षणंनववस्त्रादिधारणाद्युत्सवोद्यूतंनारीकर्तृकनीराजनं

मङ्गलमालिकाचेत्येवमादीनिकृत्यानि तत्रयदिउदयंव्याप्यदशमुहूर्ताप्रतिपत्तदाचन्द्रदर्शनाभावाच्चन्द्रदर्शनप्रयुक्तद्वितीया

वेधनिषेधाप्रवृत्तेःसर्वकार्याणिपरप्रतिपद्येवभवन्ति इष्टिनिर्णयप्रकरणेत्रिमुहूर्तद्वितीयाप्रवेशमात्रेणचंद्रदर्शनमुक्तम्

तत्सूक्ष्मदर्शनाभिप्रायम् अत्रतुस्थूलदर्शनमेवनिषेधप्रयोजकम् तच्चष्ण्मुहूर्तद्वितीयाप्रवेशएवेतिनविरोधइतिभाते

यदिनवमुहूर्तानास्तितदाबलिपूजागोक्रीडागोवर्धनपूजामार्गपालीबन्धनवष्टिकाकर्षणानिपूर्वविद्धप्रतिपदिकार्याणि

अभ्यङ्गनववस्त्राधिधारणद्यूतनारीकर्तृकनीराजनमङ्गलमालिकादीनि ओदयिकमुहूर्तव्यापिन्यामपिकार्याणि

बलिपूजादेः केनचिन्निमित्तेन पूर्वविद्धायामनुष्ठानासंभवेपरविद्धायामनुष्ठांनकार्यनतुकर्मत्यगस्तिथ्यन्तरपरिग्रहोवा

यथाबौधायनीय द्यैःस्वस्वसूत्रोक्तानुष्ठानासंभवे आपस्तम्बीयादिसूत्रोक्तानुष्ठानंकार्यम्

नतुकर्मलोपःशाखान्तरपरिग्रहोवातद्वदितिमाधवीयेस्पष्टम्

तत्रराजापञ्चवर्णरंगैर्बलि द्विभुजमालिख्यान्यजनाःशुक्लतुण्डुलैर्विरच्यपूजयेयुः तत्रमन्त्रः बलिराजनमस्तुभ्यंविरोचनसुतप्रभो ।

भविष्येन्द्रसुरारातेपूजेयंप्रतिगृह्यताम् १ बलिमुद्दिश्यत्किंचिद्दानकरणेऽक्षय्यं विष्णुप्रीतिकरंतत् योयादृशेनभावेनतिष्ठत्यस्यां मुनीश्वर ।

हर्षदैन्यादिरूपेणतस्यवर्षंप्रयातिहि १ अस्यांद्यूतंप्रकर्तव्यंप्रभातेसर्वमानवैः ।

तस्मिन्द्यूतेजयोयस्यतस्यसंवत्सरंजयः २ विशेषवच्चभोक्तव्यंप्रशस्तेर्ब्राह्मणैःसह ।

बलिराज्येदीपदानात्सदालक्ष्मीः स्थिराभवेत ३ दीपैर्नीराजनादत्रसैषादीपावली स्मृता ।

बलिराज्यंसमासाद्ययैर्नदीपावलीकृता ४ तेषांगृहेकथंदीपाः प्रज्वलिष्यन्तिकेशव । इत्यादि ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP