संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
नरकचतुर्दशी

धर्मसिंधु - नरकचतुर्दशी

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आश्विनकृष्णचतुर्दश्यांचन्द्रोदयव्यापिन्यांनरकभीरुभिस्तिलतैलेनाभ्यङ्गस्नानंकार्यम्

अत्ररात्र्यन्त्ययाममारभ्यारुनोदयावधिस्ततश्चन्द्रोदयावधिस्ततः सूर्योदयावधिरितिकालत्रयेपूर्वपूर्वोजघन्य

उत्तरोत्तरःश्रेष्ठः अतश्चन्द्रोदयोत्तरोमुख्यःकालः प्रातःकालोगौणः तत्रपूर्वदिनीवचन्द्रोदयव्याप्तौपूर्वापरत्रैवतद्व्याप्तौपरा

अस्मिन्पक्षेतद्दिनेऽस्तमयादिकालेविहितमुल्कादानदीपदानादिक्म्तत्काले चतुर्दश्यभावेपिकार्यम् दिनद्वयेचन्द्रोदयव्याप्तौपूर्वा

दिनद्वयेचन्द्रोदयाव्याप्तौपक्षत्रयंसंभवति पूर्वत्रचन्द्रोदयोत्तरमुषःकालंसूर्योदयंचव्याप्यप्रवृत्ताचतुर्दशी

परत्रचन्द्रोदयात्पूर्वसमाप्ता यथात्रयोदशीघट्यः ५८ पलानि ५० चतुर्दशी ५७ अस्मिन्प्रथमपक्षे

उषःकालेकदशेचतुर्दशीयुक्तेऽभ्यङ्गस्नानंकार्यम् अथपूर्वत्रसूर्योदयमात्रंव्याप्यप्रवृत्तापरत्रचन्द्रोदयात्पूर्वसमाप्ता

अथवासूर्योदयास्पर्शेनक्षयएवचतुर्दश्याः यथात्रयोदशी ५९ पलानि ५९ चतुर्दशी ५७ यथावा त्रयोदशी २ तद्दिने चतुर्दशी ५४

अत्रपक्षद्वयेपरत्रचन्द्रोदयेभ्यङ्गस्नानम् चतुर्थयामादिजघन्यकाले एवस्नानं कार्यमितिवदन्ति

अपरेत्वरुणोदयोत्तरंचन्द्रोदयादिकालेऽमावास्यादियुक्तेपिस्नानमितिवदन्ति

यत्तुचतुर्दशीक्षयेपूर्वत्रत्रयोदश्यांचन्द्रोदयेस्नानमित्याहुस्तदयुक्तम् अत्राभ्यङ्गस्नानेविशेषः

सीतालोष्ठस्मायुक्तसकण्टकदलान्वित ।

हरपापमपापमार्गभ्राम्यमाणः पुन्हःपुनः १ इतिमन्त्रेणलाङ्गलोद्धृतलोष्ठयुतापामार्गतुम्बीचक्रमर्दनशाखानांस्नानमध्ये

त्रिवारंभ्रामणंकार्यम् अभ्यङ्गस्नानोत्तरंतिलकादिकृत्वाकार्तिकस्नानंकार्यम् उक्तकालेषुस्नानासंभवे

सूर्योदयोत्तरं गौणकालेपियत्यादिभिरप्यवश्यमभ्यङ्गस्नानंकार्यम् कार्तिकस्नानोत्तरंयमतर्पणंकार्यम् तद्यथा यमायनमः

यमंतर्पयामीत्युक्त्वातिलमिश्रान्‍ त्रीनञ्जलीन्सव्येनापसव्येनवादेवतीर्थेनपितृतीर्थेनवा दक्षिणामुखोदद्यात् एवमग्रेपि

धर्मराजाय० मृत्यवे० अन्तकाय० वैवस्वताय० कालाय० सर्वभूतक्षयाय० औदुम्बराय० दध्नाय० नीलाय० परमेष्ठिने०

वृकोदराय० चित्राय० चित्रगुप्ताय० जीवत्पितृकस्तुयवैर्देवतीर्थेनसव्येनकुर्यात् ततःप्रदोषसमयेदीपा‌दद्यान्मनोहरान्‌ ।

देवालयेमठेवापिप्राकारोद्यानवीथिषु १ गोवाजिहस्तिशालायामेवं घस्त्रजयेपिच । तुलासंस्थेसहस्त्रांशौप्रदोषेभूतदर्शयोः २

उल्काहस्तानराःकुर्यः पितृणां मार्गदर्शनम् । तत्रदानमन्त्रः अग्निदग्धाश्चयेजीवायेप्यदग्धाः कुलेमन ।

उज्ज्वल ज्ज्योतिषादग्धास्तेयान्तुपरमांगतिम् १ यमलोकंपरित्यज्य आगतायेमहालये ।

उज्ज्वलज्ज्योतिषावर्त्मप्रपश्यन्तुव्रजन्तुते २ अस्यांनक्तभोजनं महापलम् ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP