संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
कोजागरव्रतः

धर्मसिंधु - कोजागरव्रतः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आश्विनपौर्णमास्याकोजागरव्रतम् सापूर्वत्रैवनिशीथव्याप्तौपूर्वाउत्तरदिने

एवदिनेद्वयेऽपिवानिशीथव्याप्तौदिनद्वयेनिशीथास्पर्शेवाउत्तरैव केचित्पूर्वदिने

निशीथव्याप्तिरेवपरदिनेप्रदोशव्याप्तिरेवतदापरेत्याहुः अत्र लक्ष्मीन्द्रयोःपूजनंजागरणमक्षक्रीडाचविहिता

तत्रप्द्मासनस्थांलक्ष्मीध्यात्वाऽक्षतपुञ्जेॐलक्ष्म्यै नमइत्यावाहनादिषोडशोपचारैःसंपूज्य नमस्तेसर्वदेवानांवरदासिहरिप्रिये ।

यागतिस्तवत्प्रपन्नानांसामेभूयात्त्वदर्चनात् १ इतिपुष्पांजलिदत्वानमेत् चतुर्दन्तसमारूढोवज्रपाणिः पुरन्दरः ।

शचीपतिश्चध्यातव्योनानाभरणभूषित १ इतिध्यात्वाअक्षतपुञ्जादाविन्द्रायनमइतिसंपूज्य विचित्रैरावतस्थायभास्वत्कुलिशपाणये ।

पौलोम्यालिङ्गिताङ्गायसहस्त्राक्षायतेनमः १ इतिपुष्पाञ्जलिंदत्त्वानमेत् नारिकेलोदकंपीत्वाअक्षक्रीडांसमारभेत् ।

निशीथेवरदालक्ष्मीःकोजागर्तीतिभाषिणी १ तस्मैवित्तंप्रयच्छामिअक्षैःक्रीडां करोतियः ।

नारिकेलान्पृथुकांश्चदेवेभ्यःपितृभ्यःसमर्प्यबन्धुभिःसहस्वयंभक्षयेत् अस्यामेवाअश्वयुजीकर्माश्वलायनैःकार्यम्

तच्चपर्वद्वैधेपूर्वाह्णसंधौशेषपर्वणिप्रकृतीष्टिंकृत्वाकार्यम् अपराह्णसंधौविकृतिमिमांकृत्वाप्रकृतेरन्वाधानम् तत्प्रयोगोऽन्यत्रज्ञेयः

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP