संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथकुमारीपूजा

धर्मसिंधु - अथकुमारीपूजा

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


एकवर्षातुयाकन्यापूजार्थंतांविवर्जयेत् । द्विवर्षकन्यामारभ्यदशवर्षावंधिकुमारीणांक्रमेण

कुमारिकात्रिमुर्तिःकल्याणिरोहिणीकालीचण्डिकाशाम्भवीदुर्गाभद्रेतिनामानि

आसांकुमारीणांप्रत्येकंपूजामन्त्राःफलविशेषाःलक्षणानिचान्यत्रज्ञेयानि ब्राह्मणेनब्राह्मणीत्येवंसवर्णाप्रशस्ता

विजातीयापिक्वचित्कामनाविशेषेणोक्ता एकैकवृद्ध्याप्रत्यहमेकावाकुमारीपूज्यामन्त्राक्षरमयींलक्ष्मीमातृणांरूपधारिणीम् ।

नवदुर्गात्मिकांसाक्षात्कन्यामावाहयाम्यहम् १ जगत्पूज्येजगद्वन्द्येसर्वशक्तिस्वरूपिणि ।

पूजांगृहाणकैमारिजगन्मातर्नमोस्तुते १ इतिमन्त्रेणपादक्षालनपूर्वकंवस्त्रकुङ्‌कुमगन्धधूपदीपभोजनैः

पूजयेदितिसंक्षेपः कुमारीपूजावद्देवीपूजाचण्डीपाठशैकोत्तरवृद्ध्यापिविहितः भवानीसहस्त्रनामपाठोपिक्वचिदुक्तः

अयंशारदनवरात्रोत्सवो मलमासेनिषिद्धः शुक्रास्तादौतुभवति प्रथमारम्भस्तुनकार्यः शावाशौचजननाशौचयोस्तु

सर्वोऽपिघटस्थापनादिविधिर्ब्राह्मणद्वाराकार्यः

केचिदारम्भोत्तरंमध्येआशौचपातेस्वयमेवारब्धंपूजादिकंकार्यमित्याहुःशिष्टास्त्वाशौचेपूजादेवतास्पर्शादेर्लोक

विद्विष्टत्वादन्येनैवकारयन्तिअपरेतृतीयादिसप्तम्याद्यनुकल्पेननवरात्रविधीनांसत्वत्प्रतिपद्याशौचेतृतीयाद्यनुकल्पाश्रयणं

कुर्वन्तिसर्वथालोपप्रसक्तावेवब्राह्मणद्वाराकुर्वन्ति उपवासादिशारीरनियमःस्वयंकार्यः

एवंरजस्वलापिउपवासादिकंस्वयंकृत्वापूजदिकमन्येनकारयेत् अत्रसभर्तृकस्त्रीणांउपवासेगन्धताम्बूलदिग्रहणंनदोषायेत्याहुः ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP