संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अत्रापरपक्षः

धर्मसिंधु - अत्रापरपक्षः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अत्रापरपक्षेसप्तम्यादिदिनत्रयेमाघ्यावर्षश्राद्धंकर्तुपूर्वेद्युःश्राद्धंकरिष्ये

माघ्यावर्षश्राद्धंकरिष्येऽन्वष्टक्यश्राद्धंकरिष्येइतिक्रमेणसंकल्पंकृत्वासर्वोप्यष्टकाविधिराश्वलायनैःकार्यः

इदमाश्वलायनानामष्टकाविकृतिरूपमेकाष्टकाकरणपक्षेपिकार्यम्

इतरशाखिनात्वष्टकारूपमेवेतिपञ्चाष्टकाकरणपक्षेऽष्टकाश्राद्धंकरिष्यइतिसंकल्प्यकार्यमेकाष्टकापक्षेतुनकार्यम्

नवम्यामन्वष्टक्यश्राद्धंनवदैवतंसर्वशाखिभिरष्टम्यामष्टकाश्राद्धाकरणेपिगृह्याग्नौयथोक्तविधिनाकार्यम्

अस्यामन्वष्टक्यस्यमुख्यत्वात्

गृह्याग्निरहितैस्तुयेषांपूर्वमातामृतापश्चात्पितामृतस्तैर्मृतमातापितृकैःपाणिहोमादिविधिनानवदैवत्यंकार्यम्

जीवत्पितृकेणमृतमातुकेणानुपनीतेनापिमात्रादित्रितयमात्रोद्देशेनैकपार्वणकंपुरूरवार्द्रवदेवसहितंसपिण्डकंश्राद्धंकार्यम्

स्वमातरिजीवन्त्यांमृतसापत्नमात्रादित्रयोद्देशेनकार्यम्

स्वमातृसापत्नमात्रोर्मृतौद्विवचनप्रयोगेणसापत्नमात्रनेकत्वेचमात्रासहबहुवचनप्रयोगेणएकस्मिन्विप्रीकएवक्षणोर्गह्यः

पिण्डश्चैकएवदेयः पितामहीप्रपितामहोर्द्वौविप्रौ पिण्डौचेत्येवंपार्वणमावश्यकम् केचिन्मातृबहुत्वेविप्रपिण्डादिभेदमाहुः

स्वमातृसापत्नमातृजीवनेतुगह्याग्निरहितेनमृतपितृकेणापिनकार्यम्

अन्वष्टक्येमातृयजनस्यमुख्यत्वादतएवात्रकैश्चिन्मातृपार्वणस्यैवप्राथम्यमुक्तमिति

भातिपूर्वांपितृमृतौपश्चान्मातृमृतावपिगृह्याग्निमतामस्यांनवम्यामन्वष्टक्यमावश्यकं

नित्यत्वात् अन्येषांपश्चान्मातृमृतौनावश्यकम् केचिन्नवम्यांपुर्वमृतमातृश्राद्धंमृतेभर्तरिलुप्त्यता

इतिवचनप्रामान्यमाश्रित्यापितृमर्रणोत्तरंनकुर्वन्ति भर्तुरग्रेसहदाहेनवामृतानां

मातामहीभगिनीदुहितृमातृष्वसृपितृष्वस्त्रादीनामपुत्राणांपितृष्वस्त्रादिनामपुत्राणां

पितृमात्रादिकुलोत्पन्नानांसर्वासामेवसौभाग्यवतीनामस्यांनवम्यांश्राद्धंकार्यम् भर्तुरग्रेमृतानांतत्तद्भर्तृमरणोत्तरंचनकार्यम्

अतएवास्याअविधवानवमीत्वप्रसिद्धिः अतःपत्न्या अपिनवमीश्राद्धंकार्यम् अस्याविधवानवमीश्राद्धस्यमहालयवद्यावद्वृश्चिकदर्शनं

गौणकालः एवंदौहित्रप्रतिपच्छ्राद्धस्यापीतिकालत्त्वविवेचने

अत्राविधवानमीश्राद्धेसुवासिनीनांप्रतिसांवत्सरिकश्राद्धादौचसुवासिनीभोजनमपिकार्यम् भर्तुरग्रेमृतानारीसहदाहेनवामृता ।

तस्याःस्थानेनियुञ्जीतविप्रैः सहसुवासिनीम् १ इत्यादिमार्कंडेयवचनात्

अस्यांनवम्यांपिण्डदानंजीवत्पितृकेणापिगर्भिणीपतिनाचापिकार्यम् नवमीश्राद्धासंभवे

ममान्वष्टक्याकरणजनितप्रत्यवायारिहारार्थं शतवारमेभिर्द्युभिः सुमनाइतिमन्त्रजपंकरिष्येइतिसंकल्प्यतज्जपंकुर्यात्

अन्वष्टक्येसामवेदिभिः पितृपार्वणमेवकार्यं मातृमातामहपार्वणेन कार्ये इतिसिन्धुः

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP