संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथमहालय

धर्मसिंधु - अथमहालय

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


तत्रशक्तेनभाद्रपदापरपक्षेप्रतिपदमारभ्यदर्शान्तंतिथिवृद्धौषोडशमहालयाःकर्तव्याः

वृद्धिक्षयाभावेपञ्चदशैवमहालयाः तिथिक्षयेचतुर्दशैव

अशक्तेनतुपञ्चम्यादिषुषठ्यादिष्वष्टम्यादिषुदशम्यादिष्वेकादश्यादिषुदर्शान्ततिथिषुकार्याः

अत्राप्यशक्तेनानिषिद्धेकस्मिंश्चिदेकस्मिन्दिनेसकृन्महालयःकर्तव्यः

प्रतिपदादिदर्शान्तपक्षेचतुर्दशीनवर्ज्यापञ्चम्यादिदर्शान्तादिपञ्चपक्षेषुचतुर्दशीवर्जयित्वान्यतिथिषुमहालयाः

सकृन्महालयेपिचतुर्दशीवर्जनीया

सकृन्महालयेप्रतिपदाषष्ठीएकादशीचतुर्दशीशुक्रवारोजन्मनक्षत्रंजन्मनक्षत्राद्दशममेकोनविंशंनक्षत्रंचरोहिणिमघारेवतीचेतिवर्ज्यानि

क्वचित्त्रयोदशीसप्तमीरविवारोभौमवारोपिवर्ज्यउक्तः

पितृमृततिथौसकृन्महालयकरणेनन्दादिनिषेधानास्ति अशक्तःपितृपक्शेतुकरोत्येकदिनेयतः ।

निषिद्धेपिदिनेकुर्यात्पिण्डदानयंथाविधि १ इत्यादिवचनात् मृततिथौश्राद्धासंभवेनिषिद्धतिथ्यादिदिनंवर्जयित्वामहालयः

तत्रापिद्वादश्यमावास्याष्टमीभरणीव्यतीपातेषु मृततिथ्यबावेपिनसकृन्महालयेकोपितिथ्यादिनिषेधोनास्ति

संन्यासिनांमहालयस्तुअपराह्णव्यापिन्यांद्वादश्यामेवसपिण्डकःकार्योनान्यतिथौ चतुर्दश्यांमृतस्यापिमहालयश्चतुर्दश्यांनभवति

श्राद्धंशस्त्रहतस्यैवचतुर्दश्यांप्रकीर्तितमितिनियमेनसर्वतोबलिष्ठेनप्रतिवार्षिकश्राद्धातिरिक्तश्राद्धस्यचतुर्दश्यांनिषेधात्

एवं पौर्णमासीमृतस्यापिमहालयःपौर्णमास्यांनकार्यः अपरपक्षत्वाभावेनतस्यांमहालयाप्राप्तेः तेन

चतुर्दशीमृतस्यपौर्णमासीमृतस्यवामहालयोद्वादश्यमावास्यादितिथिषुकार्यः

अत्रकन्यार्कःप्राशस्त्यसंपादकोनतुनिमित्तम् आदौमध्ये वसानेवायत्रकन्यांव्रजेद्रविः ।

सपक्षःसकलःपूज्यःश्राद्धषोडशकंप्रति१ इत्यादिस्मृतेः

अमावास्यापर्यन्ततिथावसंभवेआश्विनशुक्लपञ्चमिपर्यन्तंयस्मिन्कस्मिंश्चित्तिथौमहालयः

तत्रासंभवेयावृद्वृश्चिकदर्शनंव्यतीपातद्वादश्यादिपर्वणि कार्यः मृताहेमहालयेचश्राद्धंपक्वान्नेनैवकार्यंनत्वामान्नादिना

महालयेगयाश्राद्धेमातापित्रोर्मृतेऽहीन । कृतोद्वाहोपिकुर्वीतपिण्डदानंयथाविधि १ ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP