संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथयजुर्वेदनिर्णयः

धर्मसिंधु - अथयजुर्वेदनिर्णयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

तत्रबह्‌वृचानांश्रवणवत्सर्वयजुर्वेदिनांश्रावणपौर्णमासीमुख्यकालः पौर्णमास्याः

खंडत्वेयदापूर्णिमापूर्वदिनेमुहूर्ताद्यनन्तरंप्रवृत्ताद्वितीयदिनेषण्मुहूर्तव्यापिनीतदासर्वयाजुषाणामुत्तरैव

यदाशुद्धाधिकतयादिनद्वयेपिसूर्योदयव्यापिनीतदासर्वयाजुषाणांपूर्वैव

पूर्वदिनेमुहूर्ताद्यनन्तरंप्रवृत्ताद्वितीयदिनेमुहूर्तद्वयत्रयादिव्यापिनीषण्मुहूर्तन्यूनातदातैत्तिरीयैरुत्तराग्राह्या

तैत्तिरीयभिन्नयाजुषैःपुर्वाग्राह्या यदापुर्वदिनेमुहूर्ताद्यनन्तरंप्रवृत्ताद्वितीयदिने

मुहूर्तद्वयन्यूनाभवतिक्षयवशान्नास्त्येववातदासर्वयाजुषाणांपूर्वैवहिरण्यकेशीतैत्तिरीयाणां

श्रावणीपौर्णमासीमुख्यःकालस्तदभावेश्रावणेहस्तःश्रावणशुक्लपञ्चमीतुतत्तत्सूत्रेनुक्तेर्नग्राह्या

एतदेवभाद्रपदेपिकालद्वयमितिविशेषः खण्डतिथित्वेनिर्णयः पुर्वोक्तएव हस्तनक्षत्रमपिऔदयिकंसङ्गवस्पर्शिग्राह्यमन्यथापूर्वविद्धमेव

आपस्तम्बानांश्रावणीपौर्णमासीमुख्यातदभावे भाद्रपदीतिविशेषः बौधायनानां श्रावणीपौर्णमासीमुख्या

दोषसंभावनयातदभावेआषाढीतिविशेषः एतेषामपिखण्डतिथित्वेपूर्वोक्तएवनिर्णयः ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP