संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथकाम्यव्रतानि ।

धर्मसिंधु - अथकाम्यव्रतानि ।

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

गुडवर्जनान्मधुरस्वरता तैलवर्जनात्सुन्दराङ्गता योगाभ्यासीब्रह्मपदमाप्नोति

ताम्बूलत्यागाद्भोगीमधुरकण्ठश्च घृतत्यागीस्निग्धतनुः शाकत्यागीपक्वान्नभुक्‌

पादाभ्यङ्गत्यागाद्वपुःसौगन्ध्यम् दधिदुग्धतक्रत्यागाद्विष्णुलोकः

स्थालीपाचितान्नत्यागाद्दीर्घसन्ततिः भूमौदर्भशायीविष्णुदासः भूमि भोजनान्नृपत्वम्

मधुमांसत्यागान्मुनिः एकान्तरोपवासाद्ब्रह्मलोकः नखकेशधारनद्दिनेदिगेङ्गास्नानम्

मौनादस्खलिताज्ञा विष्णुवन्दनाद्गोदानफलम् विष्णुपादस्पर्शात्कृतकृत्यता ह

रेरालयेसंमार्जनादिनानृपत्वम् शतप्रदक्षिणाकरणाद्विष्णुलोकः एकभुक्ताशनादिग्निहोत्रफलम्

अयाचितेनवापीकूपोत्सर्गादिपूर्तफलम् षष्ठाहःकालभोजनाच्चिरस्वर्गः पर्णेषुभोजनात्कुरुक्षेत्रवासफलम्

शिलाभोजनात्प्रयागस्नानफलम् एवंमासचतुष्ट्यसाध्यानांव्रतानांसंकल्पमेकादश्यां

द्वादश्यांवाकृत्वाश्रावणमासव्रतविशेषसंकल्पइहैवकार्यः अहंशाकंवर्जयिष्ये श्रावणेमासिमाधवेति

अत्रशाकशब्देनलोकेप्रसिद्धाः फलमूलपुष्पपत्रांकुरकाण्डत्वगादिरूपावर्ज्या नतुव्यञ्जनमात्रं

शुण्ठीहरिद्राजीरकादिकमपिवर्ज्यम् तत्र तत्कालोद्भवानामातपादिशोषितकालान्तरोद्भवानांचसर्वशाकानांवर्जनं

कार्यम् अथैषांचा तुर्मास्यव्रतानांसमाप्तौकार्तिक्यांदानानितत्रैव वक्ष्यन्ते ।

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP